Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ स. २७ तत्र च गणधरदेवादिभिरानीतमाहारं निखिलदोषविशुद्धं विज्ञाय क्षुद्वेदनोदये गृह्णाति । आहारं च तदीयपाणिपल्लवन्यस्तं मांसचक्षुषः पश्यन्ति । कथमसौ भुक्ते इत्येतत्तु न पश्यन्ति । सर्वज्ञाहारविहारयोमाँसचक्षुषामगोचरत्वात् । ___ यत्पुनरत्र प्रभाचन्द्रानुसारी प्राह । किमर्थं भगवान् देवच्छंदके विकल्पप्रदर्शनपूर्वकं प्रभा-गच्छति । मनोविक्षेपपरिहारेण ध्यानसिद्धयर्थं चन्द्रानुसारिणः पूर्वप. निरोधाक्षमतया यथासुखमवस्थानार्थं रहस्यक्षस्योरपादनपूर्व
खण्डनाए । कार्यानुष्ठानाथें वा। तत्राद्यः पक्षोऽयुक्तः । अमनस्कतया भगवतो मनोविक्षेपासंभवाद्योगनिरोधसद्धावेनोपचारस्तन १० ध्यानाभिधानाञ्च । द्वितीयपक्षोप्यनुपपन्नः । अनन्तवीर्यस्य निरोधाक्षम
त्वानुपपत्तेः । अनन्तसुखान्वितस्य दुःखलेशस्याप्यभावतो यथासुखमित्यस्यापि दुर्घटत्वात् । रहस्यकार्य च निन्द्यमनिन्द्यं वा । न तावन्निन्छम् । प्रक्षीणाशेषदोषस्य निन्धकार्यानुष्ठानविरोधात् । अथानिन्छम् । तरिक भोजनं कर्मक्षपणं वा । न तावद्भोजनम् । तस्यामोहे भगवति प्रतिषिद्धत्वात् । अप्रतिषेधे वा कस्मादसावेकान्ते गत्वा भुक्ते । दृष्टिभयाद्याचकमयादनुचितानुष्ठानत्वाद्वा । तत्राद्यविकल्पोऽनुपपन्नः । भगवतो दृष्टिदोषागोचरत्वात् । अपि च ।
कुष्ठं कुण्ठयति ज्वरं जरयति प्रोन्मूलयत्यइमरी
__शोघं शोषयति क्षयं क्षपयति स्फोटं पिनष्टि क्षणात् ।। २० तेषां नाम कथंचन स्मृतमपि प्राणिप्रबन्धस्य भो
___ स्तेषां दृष्टिभयं भवत्यतितरां चित्रं तदेतहुधाः ।। ४३४ ॥ द्वितीयविकल्पे तु भगवता महद्दीनत्वं प्रख्यापितम् । न खलु महासत्त्वस्य पृष्ठतो लग्नान्त्रुभुक्षापीडिताशिप्यान्विहाय पितुरिव पुत्रानेकान्ते गत्वा भोजनं युक्तम् । अनुचितानुष्ठानत्वेन तु न तत्र
१ शेषाम्' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242