Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्वालोकालङ्कारः [परि. २ सू. २७ न चैवं तदिहास्तीति प्रोक्तं प्राक् । शरीरस्थित्यन्यथानुपपत्त्येति द्वितीयविकल्पे तु यदनन्तवीर्यत्वं प्रस्तुताहारमन्तरेणापि केवलिनि शरीरस्थितिकारणमुच्यते । तच्छद्मस्थावस्थायामपि तत्रापरिमितबलश्रवणात्स
मस्त्येव । न च प्रस्तुताहारं विना तत्तस्यामवस्थायां तत्र शरीरस्थिति५ कारणम् । अन्यथा कर्मक्षयार्थमनशनादितपस्युडामवतो भगवतः प्राणवृत्तिप्रत्ययमशनाद्यभ्यवहरणमसङ्गत स्यात् । न च छद्मस्थावस्थायां क्षायोपशमिकं तस्य वीर्य केवल्यवस्थायां तु क्षायिकमिति विशिष्टाहारमन्तरेणापि केवल्यवस्थायां तु तत्तत्र शरीरस्थितिनिबन्धनमित्यभिधानीयम् । क्षायिकवीर्यसद्भावेऽपि शरीरस्थितिनिमित्तोपवेशनादिवत्प्रकृताहारस्याप्यविरोधात् । न चोपवेशनादिकमपि शरीरस्थित्यर्थं तत्रासिद्धम् । समुद्धातावस्थान्तरकालं केवलिनः पीठफलांदिप्रत्यर्पणश्रुतेः । न च तद्रहणमन्तरेण तत्प्रत्यर्पणं सम्भवतीति । स्वभावत एव भुक्त इति तृतीयविकल्पस्त्वनभ्युपगमादेव प्रतिहत इति । यच्चेदमुच्यते,
किं देहोपचर्यार्थमेव यदि वा ज्ञानादि मा क्षीयता'किं देहोरचयार्थमेव केवली भुक्ते' इत्यादीनां मित्यव किमथ क्षुधः क्षतिकृते किं वायुपोऽसाधिते। षण्णां विकल्पानां निर्वाणे क्षयरक्षणार्थमथ वा गृद्धिं रसेषूत्कटां प्रदर्शनपूर्वक खण्डनम् । हन्तुं लोकमनुग्रहीतुमथ किं भुक्ते जिनः केवली
॥४३३॥ २० इति, तत्र देहोपचर्यार्थमिति प्रथमपक्षस्तावन्नाभ्युपगम्यते । न
खलु मम शरीरे उपचयः संजायतामित्यभिसन्धाय भगवान् भुक्ते । वीतरागत्वात् । अन्यथा प्राकृतपुरुषस्येव तस्यापि सरागत्वप्रसङ्गात् । ज्ञानादि मा क्षीयतामिति द्वितीयपक्षोऽपि नाङ्गीक्रियते । ज्ञानादिक्षय
१-२ अस्मन्मुद्रापितसभाष्यतत्त्वाधांधिगमसूतेषु पृ. ८ टि. ५-६. ६ अस्मन्मुद्रापितस्याद्वादमजर्या पृ. ६६. टि. १. ३ पीठमासनं फलकमवष्टम्भनार्थः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242