Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 221
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू. २७ भवस्यापि भगवत्यभावप्रसङ्गात् । यथा च दग्धरज्जुसंस्थानीयायुष्केकर्मोदय कार्यप्राणादिधारणं भवति तथा प्रकृतमभ्युपगम्यताम् । विशेषाभावात् । किं चैकादर्शजिन इति सूत्रात् क्षुदादिपरिषहैकादशकस्य दुःखरूपस्य केवलिनि सिद्धेः कथं दुःखरूपाया " एकादश जिने ' इत्यादि सूत्रस्य क्षुदाद्येकादशप्रति-अपि बुभुक्षायास्तत्र न सिद्धिः । प्रभाचन्द्रस्तु वैचपरता व्याचक्षाणस्य- “ छमस्थवीतरागयोश्चतुर्दशेति बादर संपरोंये 44 प्रभाचन्द्रस्य विद्यानन्दा दीनां च खण्डनम् । सर्वे" इति च पूर्वापरपरिगतां सूत्रद्वयीं विधिपरां परामृशताऽन्तरालिकं त्वेकादशजिन इति सूत्रं नि१० षेधनिष्ठं निष्टङ्कयितुमेकादशशब्द स्यैकाधिकदशस्वरूपं प्रसिद्धं सम्भविनं चार्थमवगणय्यैकादशजिने इत्यागमोऽपि क्षुदाद्येकादशपरीषहप्रतिषेधपरः प्रतिपत्तव्यः । एकेनाधिका न दश एकादश इति व्युत्पत्ते - रित्येवमर्थं परिकल्पयन्नियतं लोके यानि प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं नाऽभ्याहारादिभिरेषां परिकल्प१५ नीयोऽर्थः परिभाषितव्यो वेति सकलकलाविद्विदितमपि न्यायं न कदाचिदश्रौषीत् । एकाधिकदशस्वरूप ह्यर्थः प्रस्तुतशब्दस्य प्रसिद्ध एव । न चासौ न सम्भवी । वेदनीयोदयमा विनामेकादशपरीषेहाणां तत्र सम्भवात् । अथैकाधिकदशप्रतिषेधलक्षणोऽप्यर्थ: प्रसिद्ध एवेति कथमसावस्य परिकल्पित इति चेत् । भो भगवन्तः सभ्याः सर्वेऽप्याकर्णयन्तु कृतकर्णाः ॥ एकादशशब्दार्थः प्रख्यातः कापि यद्येवम् ॥। ४३० ॥ ४६६ ༥ २० नाप्यसौ सम्भवी । वेदनीयोदयेत्यादिन्यायस्य प्रदर्शितत्वात् । अपि चैकादशेत्यत्र नन् दशशब्देन सम्बद्धः पर्युदासः प्रसज्यो वा भवेत् । पर्युदासश्चेत्, तदा दशसदृशा नवादय एकादश एकादशादयो १ अस्मन्मुद्रापितप्रमाणमीमांसायां पू. १८ टिप्पन्याम् । २ तत्वार्थ ९।११. तत्वार्थ'लो. वा. ९।१०. ४ तत्वार्थश्लो. वा. ९/१२ ५ तत्त्वार्थसूत्रे ९-९ इत्यत्र द्रष्टव्यम् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242