Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सू. २७ ]
स्याद्वादरत्नाकरसहितः
6
वाऽदशशब्दवाच्याः स्युः । ततश्चैकेनाधिका अदशेति विग्रहे दशादीनां द्वादशादीनां वा परीषहाणां तत्र विधानप्रसङ्गात्कथमेकादशपरीषहप्रतिषेधपरताऽस्य सूत्रस्य स्यात् । प्रसज्यश्चेत्, तर्ह्यदशेति समासो न प्राप्नोति । तत्र समासप्रतिषेधात् । सत्यपि चास्मिन्नदशशब्दस्य दशप्रतिषेधमात्रबोधकतायामेकेनाधिका अदशेति दशप्रतिषेधस्यैकशब्देन ५ कीदृशी संगतिः स्यात् । तदयं तपस्वी स्वकीयदर्शनाभिनिवेशविसंस्थूलीकृतस्वान्तः काशकुशावलम्बनैरात्मानं विडम्बयति । यत्पुनरेकादशजिन इति सूत्रव्याख्यायां स्वयमाशङ्कितमभिनन्दयन्निदं निजगाद विद्यानन्दः, " तर्हि जिनेन्द्रे क्षुद्रादयोऽपि माभूवन् । मोहरहितस्य वेदनीयस्य तत्र सतोऽपि तज्जननासमर्थत्वात् । तथाप्रसिद्धोदासीनावस्थ पुरुषवत् । स १० त्यमेतत् । उपचारेण तत्र तेपामभिधानात् । सकलार्थ साक्षात्कारिणोऽ मनस्कस्य चित्तवृत्तिनिरोधाभावेऽपि ध्यानाभिधानवत् । किं तदुपचारनिमित्तमिति चेत्, तत्साम प्रयेकादशवेदनीयसद्भाव इति" । तदिदं सहृदयहृदयानामानन्दं मनाग्दधानं तदभिधानस्यायथार्थत्वमेव व्यञ्जयति । तथा हि तत्सामध्येकादशवेदनीयसद्भाव इत्यमुनैकादशपरीषहोपचार- १५ निमित्तं केवलिन्यावेदयतो मोहनीयोपबृंहितवेदनीयलक्षणस्यैवास्याभिप्रेता तत्सामग्री । सा च न क्षोदक्षमा मोहनीयोपबृंहणमन्तरेणैव नामादिकर्मणइव वैद्यकर्मणोऽपि केवलिनि स्वकार्यकरणप्रावीण्योपपत्तेः । अन्यथा तीर्थकरनामकॅम्र्माद्यपि तीर्थप्रवर्त्तनादिस्वसाध्यसाधना साधीयस्तां न धारयेत् । एवं चोपचारयचनमचतुरस्रम् | मुख्यवृत्त्यैव स्वहेतु प्रभवपरी- २० पहाणां केवलिन्युपपादितत्वात् । उपपादयिष्यते चैतत्पुरस्तात् । एतेन सर्वार्थसिद्धिरेप्यत्रोपचार व्याख्यानं कुर्वन्परास्तः । यदध्ययमेवैकादशजिने परीपहा न सन्तीत्यध्याहार्यमिति पक्षान्तरमुपक्षिप्तवान् । तदपि न सूक्ष्मम् । प्रकृतस्यार्थस्याप्रसिद्धावसम्भवे वा सति ह्यध्याहारः कर्त्तव्यो नान्यथा ।
१ प्रसज्यः – प्रसज्यप्रतिषेधः । २ तत्त्वार्थछो. वा. सू. ९1११. ३ लक्षणया । ४ अस्मन्मुद्रा पितसभाष्यतत्त्वार्थाधिगमसूत्रेषु पृ. २ टि. १. ५ सर्वार्थसिद्वितत्त्वार्यटीकायां पृ. २५३. पं. १६.
" Aho Shrut Gyanam"
૨૭

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242