Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
४६५
परि. २ सू. २७] स्याद्वादरत्नाकरसहितः
४६५ ततोऽस्मदादेखि केवलिनोऽपि कावलिकाहारमन्तरेणौदारिकशरीरस्थितिश्चिरतरकाला न सम्भवतीति । अतो या विशिष्टौदारिकशरीरस्थितिः सा विशिष्टाहारमन्तरेण न भवति । यथाऽस्मदादेः 1 विशिष्टौदारिकशरीरस्थितिश्च विवादास्पदकेवलिन इत्यनुमान प्रवर्तत एव । अन्यथा धूमादरम्याद्यनुमानमपि न स्यात् । यदपि सर्वज्ञतानिश्चयोऽपि तत्र ५ दुर्लभः स्यादित्यभिधायि । तदपि केवलं तदाग्रहविलसितम् । घातिकर्मक्षयप्रभवसर्वज्ञतायाः केवलिनि कवलाहारेण तत्कार्येण वा चिरतरकालभाव्यौदारिकशरीरस्थित्यादिना सार्धं विरोधासम्भवात् । यदपि समाकर्ण्यते चेत्यादिकमौदारिकशरीरस्थितिकालेयत्तानियमप्रतिपादकं प्रमाणमस्तीत्येतदन्तमगादि । तदप्यगाधानववोधसिन्धुसमु- १० च्छलितपबलाभिनिवेशकालकूटकवलनाकुलीकृतस्वान्तस्य प्रलपितम् । समयस्य प्रामाण्याभ्युपगमे कावलिकाहारमन्तरेणौदारिकशरीरस्थितिकालेयत्तानियमभ्यापि तत एव स्थितेः । प्रथमतीर्थकरादीनां संवत्सरादिप्रतिनियतकालाधिकनिराहारौदारिकशरीरस्थितेः सूत्रे प्रतिषेधात् । निरशनकालस्य तावत एवोत्कृष्टताप्रतिपादकसूत्रभेदकरणनिमित्तासम्भ- १५ वादित्याद्युक्तं, तदप्ययुक्तन् । यतो भगवच्छरीरस्य चिरतरकालस्थिति
व सूत्रभेदकरणनिमितं समस्ति । प्रस्तुताहारं विना तच्छरीरस्थितेरसम्भवस्यानन्तरमेवाभिहितत्वात् । यदपि केवली कवलाहारं भुञ्जानः किं बुभुक्षयेत्यादि विकल्पत्रयं परिकल्प्य तत्र दूषणोद्धोषणम् । तदप्यपारतरतमःस्तोमास्तसमस्तशेमुषीप्रकाशस्य दिग्याससः प्रलापमात्रम् । २० यतः प्रथमविकल्पे तावहुभुक्षया भुञ्जानस्य भगवतो दुःखिताप्रसक्तिदोषस्त्वयोद्धावितः, स चादोष एव । असोतानुभवत्वात्प्रतिबद्धवेदनीयकर्मप्रभवस्यायोग्यवस्थाचरमक्षणं यावत्संभवात् । अविकलकारणस्य कार्यस्योत्पत्तेरनिवारणात् , अन्यथा तस्य तत्कारणत्वायोगात् । न च दग्धरज्जुसंस्थानीयत्वादसातावेदनीयस्य स्वकार्याजनकत्वमिति २५ वाच्यम् । तत एव सातावेदनीयस्यापि स्वकार्याजनकत्वापत्तेः सुखानु
१ अस्मन्मुद्रापितप्रमाणमीमांसायां पृ. १८ टिप्पन्याम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242