Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. २ सू. २७]
स्याद्वादरत्नाकरसहितः
गुणगणकथास्तावत्तावद्विलासकुतूहलं
स्मरपरिचयस्तावत्तावत्रपापरिशीलनम् ॥ वचनरचनास्तावत्तावन्मतिश्च विजृम्भते
जठरपिठरी सेयं यावत्कथञ्चन पूरिता ॥ ४२८ ॥ अथ शरीरस्थित्यन्यथानुपपत्त्येति द्वितीयः पक्षः । सोऽपि न वर्यः। ५ अनन्तवीर्यस्य भगवतः केवलिनः कावलिकाहारमन्तरेणाऽपि शरीरस्थितरुपपद्यमानत्वात् । अपि च । ये शक्ताः कुलशैलकानननदीप्राकाररत्नाकरैः
संकीर्णामपि काश्यपी रचयितुं रम्यातपत्रप्रभाम् ।। मेरु दण्डनिभं तथाऽत्र सुसखे तेषां स्वकीयस्थिती __ शक्तिर्नास्ति विनैव मुक्तिमिति नश्चित्रीयते मानसम्॥४२९॥
अथ स्वभावत एव भुंक्ते इति तृतीयः पक्षः । सोऽपि न प्रशस्तः । प्रस्तुतभुक्तिमुक्तस्वभावकल्पनयैव दोषाभावात् । कवलमुक्तिरियं जिनकुञ्जरे श्रयति मानविरोधधुरां ततः ॥ कथममी विकलं कलितादरास्तदिह शुक्लपटाङ्कितमूर्तयः ॥४३०॥ १५ कवलभुक्तिविपाटनलम्पटं किमपि दिक्पटपाटवमीक्षितम् ।। तव सखे क्षणमेकमिदं तु नः किमपि पश्य तदुद्धरणोत्सुकम् ।।४३१॥ तथा हि । यत्तावत्कवलाहारसर्वज्ञलंयोर्विरोधप्रतिपत्त्यर्थं छद्मस्था
द्विजातीयत्वादित्यादिसाधनमुपन्यस्तम् । तत्रेदं पूर्वोक्तपूर्वक्षस्य खण्डनं विस्तरशः।
"पर्यनुयुज्यते । किं सर्वथा छद्मस्थाद्विजातीयत्वं २०
केवलिनः संमतमाहोस्वित्कथञ्चित् । आद्यकल्प.नायां वादिप्रतिवादिनो स्वरूपासिद्धो हेतुः। सत्वपञ्चेन्द्रियत्वमनुष्यत्वपुरुषत्वादिभिर्धम छद्मस्थेन सह सजातीयत्वस्याप्युभाभ्यां भगवति सम्प्रतिपन्नत्वात् । द्वितीयकल्पनायां पुनरैनैकान्तिकः। विपक्षेऽप्यस्मदादौ
१ अस्मन्मुद्रापितसभाष्यलत्त्वार्थाधिगमसूत्रेषु पृ. ४४ टि. २.
"Aho Shrut Gyanam"

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242