Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 201
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ ज्ञतायाश्चरितार्थत्वान्न पारिशेप्यविश्रान्तिस्तत्रेत्युच्यते । ततो यथा परापरकर्तषु दण्डचक्रादितुरीवेमाद्युपकरणविरहपरम्परायामपरापरैरुपकरणैर्द्धादिबा रेवोपकरणज्ञतास्थितिरुपलब्धा तत्र, तथा किमत्राप्यस्तु, यद्वा धादिमादायैवेति संदेह एव । यदि पुनरन्यदुपकरण न स्यात् ५ पारिशेष्यव्याख्यानं शोभेत । तस्मादशरीरत्वेऽपि न धादिज्ञाना कृष्टिः, किं पुनस्तद्रसिद्धौ । अथ माभू दुपकरणज्ञतया धादेर्वेदयिता। नियमेन कार्यज्ञतया भविष्यति । यतः कर्ता कार्यरूपम्य वेदकः, स एवेश्वरः । इत्यपि न सारम् । यतः कार्यस्य रूपं स्वरूपमात्रमेवोच्यते धर्माधर्महेतुत्वविशेषितं वा । नायः पक्षः । दानहिंसादिकं हि कुर्वन्तो जनास्तं वेदयन्त एव स्वरूपमात्रेण । न च त ईश्वराः । नापि द्वितीयः । यतो न धर्माधर्महेतुत्वेन कार्यरूपनिश्चयस्तत्कारिणोऽप्यवश्यं भावी कुम्भकारवत् । न हि कुम्भकारः कुम्भोऽयं धर्महेतुरधर्महेतुवेति निश्चिनोति । अथास्ति कापि कार्ये धमाधमहेतुत्वनिश्चयः । इदं दानादिकार्य धर्महेतुहिंसादिकं त्वधर्महेतुरिति प्रतीतिरिति चेत् । अन्त्येव १५ क्वचित्कार्येऽसो । परं नास्मादेकान्तिकी सिद्धिः । केषांचित्तन्निश्चय विना पि कार्यकरणदर्शनात् । तद्वस्त्रापि कार्यकरणस्य सम्भाव्यमानत्वात् । ततो न धधिमयोः कस्यचिज्ञानसम्भवः । तदभावाच कथं तदधिष्ठानम् । ततो यथा चेतनानधिष्ठितावपि धर्माधर्टी कार्याय पर्यामुतस्तथा परमाण्वाद्यपि शरीराधारम्भे प्रभविष्यति कृतं चेतनेनाधिष्ठायकेन । ननु परमाण्वादेरचेतनस्य चेतनानधिष्ठितस्य स्वयमेव कथं प्रवृत्तिरिति चेत् । अस्तु तावदचेतनयोरपि धर्माधर्मयोश्चेतनेनानधिष्ठितयोरेव कथं स्वयं प्रवृत्तिरिति प्रतिबन्दिन्यायः । ईश्वरस्यैव तु कथं प्रवृत्तिः । नन्वसौ चेतनस्ततो बुद्धिपूर्व प्रवर्त्यतीति चेत् । तद्दसाविष्टानिष्टोपादानपरिवर्जनार्थं प्रवर्त्तमानोऽकृतार्थत्वेनानीश्वरः स्यात् । बुद्धिपूर्विकायाः प्रवृत्तेहेयोपादेयजिहासोपादित्से अप्यवश्यमङ्गीकर्तव्ये । यत्र ते तत्राकृतार्थत्वं यत्राकृतार्थत्वं तत्रानीश्वरत्वमिति प्रसज्यते । : "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242