Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 207
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ अत्र कापिलः कश्चिदाह । सेश्वरसांख्यमतमुपाय कापिले दर्शनेऽद्यापि प्रतिष्ठामधितिष्ठति ।। तत्खण्डनं वि स्तरतः । प्रवादिनः पराकर्तुमीश्वरं कथमीश्वराः ॥४२० । तथा चाह पतञ्जलिः, "क्लेशंकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति । तत्र च 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः'। अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । दृग्दर्शनशक्त्योरेकात्मतैवास्मिता । दृक्शक्तिरात्मा दर्शनशक्तिवुद्धिस्तयोरेकात्मसैव या मोहादभानस्य स्मिता । सुखानुशायी रागः । सुखनिबन्ध लक्षणश्चित्तधर्मोपरागः । दुःखानुशायी द्वेषः । दुःखजनके पदार्थे १० हेयत्वनिवन्धो द्वेषः प्रसिद्धः । स्वरसवाही विदुषोऽपि तथा रूढोऽ भिनिवेशः । स्वरसवाही कारणनिरपेक्ष एव न केवलमविदुषो विदुघोऽपि तथा तेनात्मना रूढोऽभिनिवेशः । यथा जन्मनः प्रभृति प्राणिनां मरणत्रास इति । कर्माणि शुभाशुभानि । तद्विपाको जात्यायुभोगाः । आशया नानाविधास्तदनुगुणाः संस्काराः । तैरपरामृष्टोऽमलिनीकृतो १५ यः स ईश्वर इति । न चेत्थं तदपरामृष्टताविशेषे मुक्तात्मनामीश्वरत्वं प्रसज्यतेत्यभिधातव्यम् । तेषां सर्वदैव बन्धेनापरामृष्टताया असम्भवात् । वन्धत्रयस्य प्राकृतिककारिकदाक्षिणसंज्ञम्य मुक्तेः पूर्व तेषां सद्भावात् । तत्र प्रकृतावात्मनो ज्ञानाचे प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । यतः पुराणे प्रकृतिलया२० प्रत्युच्यते, " पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः" इति । वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्कारवुद्धीः पुरुषबुद्धयोपासते । यान्प्रतीदमुच्यते " दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूण सहस्रं त्वाभिमानिकाः ॥१॥ बौद्धाः शतं सहस्राणि तिष्ठन्ति विगतज्वराः " इतीष्टापूर्ते २५ दाक्षिणः । “पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत" १ पातञ्जलदर्शने १।२४. २ पा. द. २-३. "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242