Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 205
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. २६ चेतनत्वाख्यस्य हेतोः कालात्ययापदिष्टत्वादिति चेत् । न । कालात्ययापदिष्टत्वम्याचेतनत्वसाधनेऽपि समानत्वात् । बीजादावप्यधिष्ठातृसद्भावस्य प्रत्यक्षबाधितत्वात् । वीजादावधिष्ठातुरतीन्द्रियत्वात्प्रत्यक्षेणाबाधनमिति चेत् । तदन्यत्रापि समानम् । कुम्भकारेश्वरादावप्यधिष्ठातुरती५ न्द्रियत्वात् । अप्रेरितः करोमीत्यनुभवः । कुम्भकारादेरधिष्ठातुर्बाधक इति चेत् । न । अदृष्टवदज्ञातस्यापि प्रेरकस्य प्रेरकत्वसम्भवात् । कुतोऽन्यथा पश्वादीनां प्रेरकत्वेनादृष्टमजानतां प्रवृत्तिः । तस्मादचेतनत्वहेतो/जादावधिष्ठातृसद्भावस्याप्रत्यक्षस्यापि सिद्धिमिच्छता विष्टि करादिव्यतिरिक्तस्याशेषस्यापि चेतनवर्गस्यापि, अधिष्ठातृसद्भावसिद्धिश्चे१० तनत्वहेतोरियतामविशेषात् । एवं चापरापराधिष्ठातृसद्भावकल्पनयाऽन वस्थानान्न बहुप्वपि युगसहस्रेषु कार्योत्पत्तिः स्यात् । ननु स्वतोऽचेतनस्य देशकालनियमेन प्रवृत्त्ययोगादविष्ठितत्वप्रयोजकादचेतनत्वहेतो/जादावधिष्ठातृसद्भावसिद्धियुक्ता । न तु चेतनत्वहेतोः कुम्भकारे श्वरादौ । चेतनस्याधिष्ठात्रभावेऽपि देशकालनियमेन प्रवृत्तिसद्भावादिति १५ चेत् । तदसत् । अचेतनस्याधिष्ठातारमन्तरेणैव प्रवृत्तिनियमस्य प्रागेव समर्थितत्वादचेतनत्वस्याप्यधिष्ठातृसद्भावप्रयोजकत्वाभावात् । अतः कचिदचेतने तन्वादावधिष्ठितत्वाचेतनत्वयोः सहभावी दृष्ट इत्यचेतनत्वम्य भवता गमकत्वमङ्गीकर्तव्यम् । तच्च कपित्सहभावदर्शनं चेतनत्वाधिष्ठितत्वयोरप्यस्तीति चेत्, तस्यापि गमकत्वमभ्युपेयम् । नो २० चेत्, अन्यत्रापि नोपेयम् । यतो यत्राधिष्ठातोपलभ्यते तत्रैवाऽसावस्ति नान्यत्रेत्येतदेव ज्यायः । एतेन तद्प्यपान्तं यवाचि कादाचित्कविचित्रसहकारिलाभेनेत्यादि धमाधम्मी चेतनाधिष्टितौ प्रवर्तते अपेतनत्वादित्यादि च । किं च धर्माधर्मयोरचेतनत्वं सर्वथा स्या स्कथञ्चिद्वा । आद्यकल्पे प्रतिबाद्यसिद्धो हेतुः । चेतनादात्मनः कथं २५ चिदभिन्नयोंर्धम्माधर्मयोरपि चेतनत्वेन जैनैः स्वीकरणात् । द्वितीयपक्षे तु वाद्यसिद्धिः । कथञ्चिदचेतनत्वस्य धर्माधर्मयोर्भवतामसिद्धेः । १ - विष्टिकर्मकरादि' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242