________________
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ स. २६
चेतनत्वाख्यस्य हेतोः कालात्ययापदिष्टत्वादिति चेत् । न । कालात्ययापदिष्टत्वम्याचेतनत्वसाधनेऽपि समानत्वात् । बीजादावप्यधिष्ठातृसद्भावस्य प्रत्यक्षबाधितत्वात् । वीजादावधिष्ठातुरतीन्द्रियत्वात्प्रत्यक्षेणाबाधनमिति चेत् । तदन्यत्रापि समानम् । कुम्भकारेश्वरादावप्यधिष्ठातुरती५ न्द्रियत्वात् । अप्रेरितः करोमीत्यनुभवः । कुम्भकारादेरधिष्ठातुर्बाधक इति चेत् । न । अदृष्टवदज्ञातस्यापि प्रेरकस्य प्रेरकत्वसम्भवात् । कुतोऽन्यथा पश्वादीनां प्रेरकत्वेनादृष्टमजानतां प्रवृत्तिः । तस्मादचेतनत्वहेतो/जादावधिष्ठातृसद्भावस्याप्रत्यक्षस्यापि सिद्धिमिच्छता विष्टि
करादिव्यतिरिक्तस्याशेषस्यापि चेतनवर्गस्यापि, अधिष्ठातृसद्भावसिद्धिश्चे१० तनत्वहेतोरियतामविशेषात् । एवं चापरापराधिष्ठातृसद्भावकल्पनयाऽन
वस्थानान्न बहुप्वपि युगसहस्रेषु कार्योत्पत्तिः स्यात् । ननु स्वतोऽचेतनस्य देशकालनियमेन प्रवृत्त्ययोगादविष्ठितत्वप्रयोजकादचेतनत्वहेतो/जादावधिष्ठातृसद्भावसिद्धियुक्ता । न तु चेतनत्वहेतोः कुम्भकारे
श्वरादौ । चेतनस्याधिष्ठात्रभावेऽपि देशकालनियमेन प्रवृत्तिसद्भावादिति १५ चेत् । तदसत् । अचेतनस्याधिष्ठातारमन्तरेणैव प्रवृत्तिनियमस्य प्रागेव
समर्थितत्वादचेतनत्वस्याप्यधिष्ठातृसद्भावप्रयोजकत्वाभावात् । अतः कचिदचेतने तन्वादावधिष्ठितत्वाचेतनत्वयोः सहभावी दृष्ट इत्यचेतनत्वम्य भवता गमकत्वमङ्गीकर्तव्यम् । तच्च कपित्सहभावदर्शनं
चेतनत्वाधिष्ठितत्वयोरप्यस्तीति चेत्, तस्यापि गमकत्वमभ्युपेयम् । नो २० चेत्, अन्यत्रापि नोपेयम् । यतो यत्राधिष्ठातोपलभ्यते तत्रैवाऽसावस्ति
नान्यत्रेत्येतदेव ज्यायः । एतेन तद्प्यपान्तं यवाचि कादाचित्कविचित्रसहकारिलाभेनेत्यादि धमाधम्मी चेतनाधिष्टितौ प्रवर्तते अपेतनत्वादित्यादि च । किं च धर्माधर्मयोरचेतनत्वं सर्वथा स्या
स्कथञ्चिद्वा । आद्यकल्पे प्रतिबाद्यसिद्धो हेतुः । चेतनादात्मनः कथं २५ चिदभिन्नयोंर्धम्माधर्मयोरपि चेतनत्वेन जैनैः स्वीकरणात् । द्वितीयपक्षे तु वाद्यसिद्धिः । कथञ्चिदचेतनत्वस्य धर्माधर्मयोर्भवतामसिद्धेः ।
१ - विष्टिकर्मकरादि' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"