________________
परि. २ स. २६] स्याद्वादरत्नाकरसहितः तदा सर्वत्र सर्वकार्याणामेकदैवोत्पत्तिः स्यात् । तत्परिज्ञानस्य प्रवृत्तिहेतोरक्रमत्वात् । नित्यं चेत्, सर्वदा सर्वत्र सर्वकार्याणामुत्पत्तिर्भवेत् । सर्वदा सर्वत्र सहकारिणामभावान्नेति चेत् । न तर्हि तत्परिज्ञानस्य समस्तकारकशक्तिविषये प्रवृत्तिः । प्रवृत्तौ तु सर्वसहकारिणामपि तत्परिज्ञानायत्तजन्मनां किं न सर्वदा सर्वत्रोत्पत्तिः । सहकारिणां तत्परि- ५ ज्ञानायत्तोत्पत्तिकत्वे कार्यमपि तथैव स्यात् । तत्परिज्ञानस्याक्रमत्वेऽपि स्वभाव एव तस्येत्थं भूतो येन कदाचित्किंचित्कचित्करोतीति चेत् । न तर्हि तत्परिज्ञानस्य प्रवृत्ति प्रत्यङ्गभावः । प्रवृत्तेस्तदक्रमानुषिधानाभावात् । यः खलु यत्कारणं तत्तस्य क्रमाक्रमावनुविधत्ते । अन्यथा कारणस्याक्रमत्वेऽपि. कार्यस्य क्रमेण भवतः, क्रमेऽपि वा १० कारणस्याक्रमण कार्यस्य भवतः, स्वातन्त्र्ये तत्कार्यत्वमेव न स्यात् । . तस्मात्तत्परिज्ञानम्याक्रमत्वेऽपि क्रमेणाविर्भवन्ती प्रवृत्तिः स्वभावमेव कारणत्वेनात्मसात्करोति न तत्परिज्ञानलक्षणं चैतन्यमित्यचेतनस्यापि स्वभावत एव प्रवृत्तिरस्त्वलमधिष्ठातृकल्पनया । नन्वधिष्ठातारमन्तरेणैवाचेतनस्य प्रवृत्तौ तन्वादेरप्पनधिष्ठितस्थैव किं न प्रवृत्तिः स्यादिति १५ चेत् । न। तम्यानधिष्ठितस्यैव प्रवृत्तौ विष्टिकर्मकरादेरपि प्रवृत्तिस्तथैव किं न भवेत् । अनधिष्ठितस्याप्रवृत्तिरिति चेत् । तन्वादेरप्येवमस्तु । तन्वादिवट्ठीजादेरप्यनधिष्ठितम्यैवं किं नाप्रवृत्तिः स्थदिति चेत् । तवाऽपि विष्टिकरादिवत्कुम्भकारेश्वरादेरप्यनधिष्ठितम्पाप्रवृत्तिः किं न प्रसज्यते । कुम्भकारादेरनधिष्ठितस्यैव प्रवृत्त्युपलम्भान्नाधिष्ठितस्य प्रवृत्ति- २० रिति । तत्किमन्यत्राधिष्ठातृवशात्प्रवृत्तिरुपलब्धा । येनानाधिष्ठितम्य बीजादेरप्रवृत्तिः समयंत । प्रत्यक्षेणानुपलभ्यमानाऽप्यधिष्ठितस्य बीजादेः प्रवृत्तिास्यादिसाधयेणाचेतनत्वहेतुनाऽनुमीयत इति चेत् । तथा कुम्भकारेश्वरादेरप्यधिष्ठातृवशात्प्रवृत्तिरप्रत्यक्षाऽपि विष्टिकर्मकरादिसाधाचेतनत्वहेतुनाऽनुमीयत इति किं नेप्यते । चेतनत्वाचेतनत्व- २५ हे तोर्विशेषाभावात् । न विशेषाभावः पक्षस्य प्रत्यक्षबाधितत्वेन
"Aho Shrut Gyanam"