SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ૮ ५ प्रमाणन यत्तत्त्वा लोकालङ्कारः [ परि. २ सु. २६ कथमपूर्वकर्मसंचयंकर्तृत्वमिति न किंचिदेतत् । तस्मान्न बुद्धिपूर्विके श्वरप्रवृत्तिः । २० स्वभावत्वादेवासी प्रवर्त्तत इति चेत् । एवं सति सतोऽपि चैतन्यस्य प्रवृत्त्यनङ्गत्वादचेतनस्यैव स्वभावः किं स्वभावत्वादेवेश्वरस्य प्रवृ-नेप्यते, किमदृष्टकल्पनया | कारकशक्तिपरिज्ञान तिरित्यस्य पक्षस्यान्यान्य पक्षाणां च खण्डनम् | लक्षणस्यास्त्येव चैतन्यस्य प्रवृत्तिं प्रत्यङ्गभावस्तत्परिज्ञानाभावेऽधिष्ठातृव्यापारायोगात् । केवलमिदमित्थं स्वार्थं परार्थं वा करोमीति चेतनाया अभावात्स्वभावतः करोतीत्युच्यत इति चेत् । ननु तत्कारकशक्तिपरिज्ञानं कतिपयकारक - १० शक्तिविषयं समस्तकारकशक्तिविषयं वा । आद्यकल्पनायामधिष्ठातुरसर्वज्ञत्वम् । किं चैतन्नित्यमनित्यं वा । नित्यं चेत्, तदा कारकशक्तिपरिज्ञानस्य नित्यत्वात्सर्वदा तत्कार्यस्योत्पत्तिः स्यात् । अथ न कारकशक्तिपरिज्ञानमित्येवं कार्यस्योत्पत्तिः, किन्तु यदा कारकं तेनाधिष्ठितं भवति, न च यज्ज्ञानं तदधिष्ठीयत एवेति नियमः, किन्तु १५ ज्ञानमेवा धिष्ठीयत इति, ततो न कश्चिद्दोषः । तदसत् । यतः प्रयत्न गोचरीभूयमापन्नत्वमधिष्ठितत्वमुच्यते । प्रयत्नस्यापि च नित्यत्वात्तदवस्था सदा तत्कार्योत्पत्तिः । अथानित्यं तत्, यदा हि यत्कारकं यत्कार्थमुत्पादयति तच्छक्तिपरिज्ञानमपि तदैवास्योत्पद्यते । तदप्ययुक्तम् । यतो यदि कारकं तावत्स्वयमेव कार्योत्पादनप्रागल्भ्यमभ्यस्यति तदा तच्छक्तिपरिज्ञानेन सिद्धोपस्थायिना किं नाम कर्तव्यम् । अथ यदा यत्कारकशक्तिगोचरं संवेदनं जायते तदा तत्कारकं कार्यं करोतीत्युच्यते । नन्वेतस्य विज्ञानस्य प्रतिनियतकारकशक्तिगोचरतायां किं नियामकम् । न खल्वेत दैन्द्रियकं मानसं वा । तद्धि यत्र यत्रेन्द्रियं मनो वा व्यापिपर्ति तत्र तत्र समुत्पाद्यत इति युक्तम् । ईश्वरस्य २५ त्विन्द्रियमनसोरभावात्कथमेवं प्रतिनियमः | अथ समस्तकारकशक्तिविषयं तत्परिज्ञानम् । ननु तदपि नित्यमनित्यं वा । यद्यनित्यम् । " Aho Shrut Gyanam".
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy