________________
परि. २ सु. २६] स्याद्वादरत्नाकरसहितः अथ स्यादेवं प्रसङ्गः, यदि बुद्धिपूर्चिका प्रवृत्तिरीयोपादेयजिहासो
पादित्से, परानुजिवृक्षया प्रवृत्तिसम्भवादिति चेत् । परानुनहेच्छयेश्वरस्य प्रवृक्तिस्त्यिस्य पक्षस्य एवं तर्हि परार्थनासौ प्रवृत्तः सदा सर्वजन्तूनां
खण्डनम् । सुखमेव जनयेन्न दुःखम् । धर्माधर्मसह. कारिणः कर्तृत्वात्सुखं च दुःखमप्यसौ जनयतीति चेत् । ५. न तर्हि परानुजिघृक्षयाऽसौ प्रवत्तते, अपि तु सहकारिवशात् । यदा यत्र सन्निहितसह कारिकारणमिष्टमनिष्टं वा तत्तदा तत्र जनयतीत्यभ्युपगमात् । परानुजिघृक्षया हि प्रवृत्तिः सत्यपि दुःखहेतुसन्निधाने तं विनिवर्त्य सुखमेव निष्पादयेत् । अथ धर्माधर्मयोः सुखदुःखफलोपभोगेन प्रक्षयादपवर्ग: स्यादिति सुखं' च दुःखमपि करोति । तस्य १०. हि संसारात्प्राणिनो मोचयिप्यामीति परोपकारार्थैव प्रवृत्तिः । मुक्तिश्च प्राणिगणानां धर्माधर्मप्रक्षयात् । तत्प्रक्षयश्च स्वफलोपभोगमन्तरेण न सम्भवतीत्यपारकरुणाकूपारः परमेश्वरस्तथाविधयातनाशरीरादिकरणे प्रवर्तत इति चेत् । ननु धर्माधीवपीश्वरव्यापारनिप्पादनीयावन्यथा वा । आद्यपक्षे धर्माधर्मों निष्पाद्य पुनस्तयोः क्षयकरणे वरमुत्पत्ति- १५ रेव न कृता । तावुत्पाद्य पुनर्विनाशयन्प्रक्षालिताशुचिमोदकपरित्यागन्यावानुम्मरणादीश्वरो न भौतादतिरिच्यते । कथं वा प्राकृतजनवेद्यामपि " प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् " इत्यप्यजानानः सर्वज्ञोऽसौ । धर्माधर्मोत्पत्तावीश्वरस्य तु व्यापाराभावे तद्विनाशेऽपि न व्यापारः स्यात् । धर्माधर्मवत्सुखदुःखयोरपीश्वरव्यापारम- २० न्तरेणैव कारणान्तरादुत्पत्तेः । फलोपभोगेन धर्माधर्मयोः क्षयसम्भ
वात् । न हीश्वरस्यापि सुखदुःखफलोत्पादनादन्यद्धर्माधर्मक्षयकर्तृ। त्वम् । धर्माधर्मयोरनीश्वरकार्यत्वे च सर्वो हेतुरीश्वरसिद्धयेऽभिहितोऽनैकान्तिकः स्यात् । प्राणिनां चापवर्गनिष्पादनार्थमीश्वरस्य प्रवृत्ती
१ . सुखवत् ' इति भ. पुस्तके पाठः । २ “ धर्मार्थ यस्य वित्तेहा तस्यापि न शुभावहा' इति पूर्वार्धम् । पञ्चतन्त्रे पृ. १५..
"Aho Shrut Gyanam"