________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ ज्ञतायाश्चरितार्थत्वान्न पारिशेप्यविश्रान्तिस्तत्रेत्युच्यते । ततो यथा परापरकर्तषु दण्डचक्रादितुरीवेमाद्युपकरणविरहपरम्परायामपरापरैरुपकरणैर्द्धादिबा रेवोपकरणज्ञतास्थितिरुपलब्धा तत्र, तथा किमत्राप्यस्तु,
यद्वा धादिमादायैवेति संदेह एव । यदि पुनरन्यदुपकरण न स्यात् ५ पारिशेष्यव्याख्यानं शोभेत । तस्मादशरीरत्वेऽपि न धादिज्ञाना
कृष्टिः, किं पुनस्तद्रसिद्धौ । अथ माभू दुपकरणज्ञतया धादेर्वेदयिता। नियमेन कार्यज्ञतया भविष्यति । यतः कर्ता कार्यरूपम्य वेदकः, स एवेश्वरः । इत्यपि न सारम् । यतः कार्यस्य रूपं स्वरूपमात्रमेवोच्यते धर्माधर्महेतुत्वविशेषितं वा । नायः पक्षः । दानहिंसादिकं हि कुर्वन्तो जनास्तं वेदयन्त एव स्वरूपमात्रेण । न च त ईश्वराः । नापि द्वितीयः । यतो न धर्माधर्महेतुत्वेन कार्यरूपनिश्चयस्तत्कारिणोऽप्यवश्यं भावी कुम्भकारवत् । न हि कुम्भकारः कुम्भोऽयं धर्महेतुरधर्महेतुवेति निश्चिनोति । अथास्ति कापि कार्ये धमाधमहेतुत्वनिश्चयः । इदं
दानादिकार्य धर्महेतुहिंसादिकं त्वधर्महेतुरिति प्रतीतिरिति चेत् । अन्त्येव १५ क्वचित्कार्येऽसो । परं नास्मादेकान्तिकी सिद्धिः । केषांचित्तन्निश्चय विना
पि कार्यकरणदर्शनात् । तद्वस्त्रापि कार्यकरणस्य सम्भाव्यमानत्वात् । ततो न धधिमयोः कस्यचिज्ञानसम्भवः । तदभावाच कथं तदधिष्ठानम् । ततो यथा चेतनानधिष्ठितावपि धर्माधर्टी कार्याय पर्यामुतस्तथा परमाण्वाद्यपि शरीराधारम्भे प्रभविष्यति कृतं चेतनेनाधिष्ठायकेन । ननु परमाण्वादेरचेतनस्य चेतनानधिष्ठितस्य स्वयमेव कथं प्रवृत्तिरिति चेत् । अस्तु तावदचेतनयोरपि धर्माधर्मयोश्चेतनेनानधिष्ठितयोरेव कथं स्वयं प्रवृत्तिरिति प्रतिबन्दिन्यायः । ईश्वरस्यैव तु कथं प्रवृत्तिः । नन्वसौ चेतनस्ततो बुद्धिपूर्व प्रवर्त्यतीति चेत् । तद्दसाविष्टानिष्टोपादानपरिवर्जनार्थं प्रवर्त्तमानोऽकृतार्थत्वेनानीश्वरः स्यात् । बुद्धिपूर्विकायाः प्रवृत्तेहेयोपादेयजिहासोपादित्से अप्यवश्यमङ्गीकर्तव्ये । यत्र ते तत्राकृतार्थत्वं यत्राकृतार्थत्वं तत्रानीश्वरत्वमिति प्रसज्यते । :
"Aho Shrut Gyanam"