________________
परि. २ सू. २६] स्याद्वादरत्नाकरसहितः मन्तरेणापि प्रवृत्तेः । स्वमन्दिरस्य केनचित्कारणात् । अथ मन्दिरादावपि पशुपतिरेव कर्ता नास्मदादिः । सकलकार्यकूटघटनलम्पटो हि धूर्जटिः ! स्वप्नाद्यपि सकलं स एव विधत्ते । परसम्प्रदानवेदी चायमिति । तदचतुरस्रम् । एवं कुलालादेरप्यकर्तृत्वप्रसङ्गेन दृष्टान्ताभावात्कार्यानुमानानुदयापत्तेः । तम्माद्यद्यवश्यं सम्प्रदानतापेक्षं कर्तृत्वम् । तदा स्वात्मापि सम्प्रदानमेषितव्यः । अस्तु वा पर एव सम्प्रदानम् । किन्तु तमपि सम्प्रदानव्यवहारप्रसिद्ध तथाविधचेप्टाविशिष्टदेहाकारं विहाय क्षेत्रज्ञस्वरूपं कुलालादिर्न ज्ञातुमीशः । उपकरणशब्दसंगृहीतान् कर्माशयभेदान् वा । ततो यथा कुलालस्तान् भेदानविद्वान् दण्डचक्रादिवेदनेनैवोपकरणज्ञम्तथानुमीयमाना अपि १० क्षुद्रजन्तवः स्वकीयकरणमुखादिज्ञानेनाप्युपकरणज्ञा भविष्यन्तीति कुतस्त्यमेतत्क्षेत्रज्ञस्वरूपतदीयधम्मधिशियभेदपरिज्ञानम् । अथ पृथिव्यादिकर्तुरशरीरस्य कुतोऽमुखाद्यसंगतिरीित चेत् । अशरीरस्य सिद्धिसङ्गतिरेव नास्तीति कुतोऽस्याङ्गसङ्गतिचिन्ता । एकत्वे हि सिद्धे शरीरी प्रादेशिको न सर्वकर्मणि समर्थ इति सामर्थ्यादशरीरिकर्तृ- १५ सिद्धिप्रत्याशा स्यात् । एकत्वं च दुःसाध्यमित्युक्तम् । अस्तु वाऽयमशरीरी । तथापि न दोषः । नन्वशरीरत्वे दण्डचक्रकरमुखाद्युपकरणानुपपत्तेः पारिशेप्यानुमानेन काशयभेदज्ञानेनैवोपकरणज्ञाननिष्ठति चेत् । तदसुन्दरम् । दिकालसमवायादेरप्युपकरणशब्दसंगृहीतस्य ज्ञानेन तज्ज्ञतामात्रस्यैव कृतार्थत्वात् । कः पुनरसौ विशेषो २०. यतस्तदवस्थस्य दिगादिज्ञानेनैवोपकणरज्ञता न धादिज्ञानेनेति । उभयज्ञानेनैव भवत्विति चेत् । तदयुक्तम् । न हि यावदुपकरणं तावस्कर्ताऽवश्यं ज्ञेयमिति दृष्टम् । ने दिगादिज्ञानेनैवोपकरणविधिस्तदवस्थस्येति निश्चयं ब्रूमो यतो विशेषपर्यनुयोगः क्रियेत । किन्तूपकरणज्ञानेनैवेति दिगादेरपि चोपकरणत्वसम्भवात्तज्ज्ञानमात्रेणैव वोपकरण- २५
१"न ' इति नास्ति भ. पुस्तके ।
"Aho Shrut Gyanam"