________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ यच्च वाचस्पतिना कार्यतानुमानात्कस्यचित्तनुभुवनाद्यभिज्ञतां प्रसाध्य
... सर्वज्ञतासिद्धये परिशेषानुमानं व्यतिरेकापरपर्यावाचस्पत्यभिमतस्य कर्तुः सर्वज्ञत्वोपपादानप्रकारस्य यमुद्यते । तनुभुवनाद्युपादानाद्यभिज्ञः कर्ता तदुपादनप्रकारान्तरस्य नानित्यासर्वविषयवुद्धिमान् । तत्कर्तुस्तदुपादा
पर नाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टो यथाऽस्मदादिः । तदुपादानाद्यभिज्ञश्चायम् । तस्मात्तथेति । तदपि प्रोक्तनीत्या निराकृतमवसेयम् । एवं तस्यैकत्वनिश्चयाभावात् । अनित्यासर्वविषयबुद्धिमत्त्वेऽप्युपादानादिवेदनसम्भवस्योपपादितत्वात् ।
ननु छाणुकस्यापि कार्यत्वात्कर्ता तदुपादानपरमाणुदर्शनायैषितव्यः । न १० च मांसचक्षुषस्तथा भवितुमर्हन्ति । अन्यथा किमम्मदादिभिरपराद्धम् ।
यत्तथा न भवामः । तदवश्यं तत्काऽतीन्द्रियदर्शी स्वीक्रियमाणो नेश्वरादन्यो युक्तः । तदपि न युक्तम् । न हि मांसचक्षुष्टेऽपि सर्वेषां साधारणं करणसामर्थ्यम् । अस्मदत्यन्तापकृष्टानामपि पिपीलिकागृध्रवराहादीनामिन्द्रियपाटवातिशयदर्शनात् । क्षोदिष्ठानामेव च केषांचित्परमाणुदर्शनमपि स्यात् । कर्मशक्तिविशेषात् । यथा पिपीलिकानामस्मदगोचरगन्धाणुग्रहणम् । न च कैश्चित्परमाणुरूपसूक्ष्मपदार्थप्रेक्षणे देशकालविप्रकृष्टस्य सूक्ष्मान्तरस्य सकलस्थूलस्य वा तैर्दर्शनं स्यात् । पिपीलिकादिनिदर्शनेनैव कृतोत्तरत्वात् । एवं तर्हि भवतु
परमाणोर्दर्शनसम्भावना सकलक्षेत्रज्ञतत्समवेतकाशयविशेषाणां तु २० कथमिति चेत् । न कथंचिदिति ब्रूमः । न हि कार्यक्रिया
क्षेत्रज्ञस्वरूपादिपरिज्ञानेनापि व्याप्ता कुलालादौ दृष्टा । किन्तु सम्प्रदानोपकरणवेदनद्वारेण तदाकृष्टिरिप्यते । सा च प्रस्तुतेऽशक्या । उक्तक्रमेणापि तन्मात्रवेदनस्य चरितार्थत्वात् । कर्मणा स्वस्याभि
प्रेर्यमाणत्वेन सम्प्रदानताया दुर्वारत्वात् । यथा स्वस्मै मन्दिरं २५ करोमीति । अन्यथाऽनेनैव व्यभिचारप्रसङ्गः । तत्र परसम्प्रदानवेदन
१' सम्भवेनासकल ' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"