________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः सितरश्मिकलावचूलसिद्धौ समयो यः पुनरौच्यत प्रमाणम् । ननु तस्य सखे प्रमाणभावं परतः किं यदि वा स्वतो ब्रुवीथाः ॥२११॥
विकल्पे प्राचि संवादाद्विसंवादव्यपायतः ।
आप्तेन गदितत्वाद्वा स्यात्प्रामाण्यविनिर्णयः ॥ ४१२ ॥ संवादोऽस्ति न तावदत्र निखिलप्रोक्तोपपत्तिक्षया
देकर कचिदस्ति दृष्टविषये तस्यैष चेकि ततः । नोकं न समम्ति सत्यमुदितं लोकायतानामपि
ग्रन्थे किं च ततो यतोऽपि स भवेत्सत्यः समन्तादपि ॥४१३॥ विसंवादाभावः पुनरिह कथं निर्णयपदं __ प्रसपेत् व्याश्चेत् कचन तदनालोकनवशात् । त्वदीयं तन्त्रत्वाध्यभिचरति विश्वस्य तु न त
द्विना विश्वज्ञातन् प्रभवति सुविज्ञातुमपरः ॥ ४१४ ।। आप्तेन गदितत्वातु तत्प्रामाण्यस्य निश्चये । परस्पराश्रयाभिख्याद्दोषान्मोक्षः कथं भवेत् ।। ४१५ ॥ आप्तसिद्धौ हि तत्प्रोक्तशब्दस्य स्यात्प्रमाणता । सत्यां च तस्यामातस्य सिद्धिः स्यादपकल्मषा ॥ ४१६ ॥ न स्वतस्तु समयप्रमाणतामक्षयादतनयाः प्रपेदिरे । आगमादपि पुरारिसाधनं धीमतां तदुपपद्यते कथम् ॥ ४१७ ॥ एवं च-- कार्यत्वादिविचित्रयुक्तिपटलीकोदण्डयष्टिः स्फुटं
सेयं सम्प्रति दुष्टदूषणघुणैर्भिन्ना बभळे क्षणात् ॥ तस्मादस्तु कथं समस्तजगता निर्वतनैकाग्रधी
श्चन्द्रार्धाभरणो भवेदखिलविन्निःसंशयं यद्वशात् ॥ ४१८ ॥ केचित्प्लवन्ते बहिरेव तावत् को चेत्पुनमध्यममामुवन्ति ।। कुम्भोद्भवाम्भश्च भवेत्स कश्चिद्वादाब्धिमेतं रभसात्पिबेद्यः ॥४१९॥ २५ २९
"Aho Shrut Gyanam"