________________
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ सू. २६
अत्र कापिलः कश्चिदाह । सेश्वरसांख्यमतमुपाय कापिले दर्शनेऽद्यापि प्रतिष्ठामधितिष्ठति ।। तत्खण्डनं वि
स्तरतः । प्रवादिनः पराकर्तुमीश्वरं कथमीश्वराः ॥४२० । तथा चाह पतञ्जलिः, "क्लेशंकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः” इति । तत्र च 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः'। अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । दृग्दर्शनशक्त्योरेकात्मतैवास्मिता । दृक्शक्तिरात्मा दर्शनशक्तिवुद्धिस्तयोरेकात्मसैव या मोहादभानस्य स्मिता । सुखानुशायी रागः । सुखनिबन्ध
लक्षणश्चित्तधर्मोपरागः । दुःखानुशायी द्वेषः । दुःखजनके पदार्थे १० हेयत्वनिवन्धो द्वेषः प्रसिद्धः । स्वरसवाही विदुषोऽपि तथा रूढोऽ
भिनिवेशः । स्वरसवाही कारणनिरपेक्ष एव न केवलमविदुषो विदुघोऽपि तथा तेनात्मना रूढोऽभिनिवेशः । यथा जन्मनः प्रभृति प्राणिनां मरणत्रास इति । कर्माणि शुभाशुभानि । तद्विपाको जात्यायुभोगाः ।
आशया नानाविधास्तदनुगुणाः संस्काराः । तैरपरामृष्टोऽमलिनीकृतो १५ यः स ईश्वर इति । न चेत्थं तदपरामृष्टताविशेषे मुक्तात्मनामीश्वरत्वं
प्रसज्यतेत्यभिधातव्यम् । तेषां सर्वदैव बन्धेनापरामृष्टताया असम्भवात् । वन्धत्रयस्य प्राकृतिककारिकदाक्षिणसंज्ञम्य मुक्तेः पूर्व तेषां सद्भावात् । तत्र प्रकृतावात्मनो ज्ञानाचे
प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । यतः पुराणे प्रकृतिलया२० प्रत्युच्यते, " पूर्ण शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः" इति ।
वैकारिको बन्धस्तेषां ये विकारानेव भूतेन्द्रियाहङ्कारवुद्धीः पुरुषबुद्धयोपासते । यान्प्रतीदमुच्यते " दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूण सहस्रं त्वाभिमानिकाः ॥१॥
बौद्धाः शतं सहस्राणि तिष्ठन्ति विगतज्वराः " इतीष्टापूर्ते २५ दाक्षिणः । “पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत"
१ पातञ्जलदर्शने १।२४. २ पा. द. २-३.
"Aho Shrut Gyanam"