________________
परि. २ सू. २६ ]
स्याद्वादरत्नाकर सहितः
"
इति । अनेन बन्धत्रयेण सकलकालमनाकलितः कलानिधि कलावचूल एव भगवान् । तदपरे त्वात्मनो बन्धत्रयमिदं विवेकज्ञानेन समूलमुन्मूल्य मुक्ताः सम्पद्यन्ते । नित्यमुक्तस्य चेश्वरस्य न पूर्वा बन्धकोटिरस्ति । यथा संसारिमुक्तात्मनाम् । नाप्युत्तरा । यथा प्रकृतिलीनतत्त्वज्ञानानां योगिनाम् । ते हि मुक्ति प्राप्याऽपि पुनर्बन्धभाजो जायन्ते । ऐश्वर्ययोगाद्वाऽयमीश्वरः । तच्चैश्वर्यमष्टप्रकारम् । तद्यथा, अणिमा, लधिमा, महिमा, प्राप्तिः, प्राकाम्यं, वशित्वं, ईशित्वं यत्र कामावसायित्वं चेति । तत्राणिमा भवत्यणुः । यतः सर्वभूतैरदृश्यः सन् सर्वत्र लोके संचरति । लघिमा लघुर्भवति । यतः सूर्यमरीची नालम्ब्य सूर्यलोकं याति । महिमा महान् भवति । यस्मादल्पोऽपि नागनग- १० नगरगगनपरिमाणः सम्पद्यते । प्राप्तिर्यतः सर्वे भावाः सन्निहिता भवन्ति । तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । प्राकाम्यमिच्छानभिघातः । यतो भूमान्मज्जति निमज्जति च यथोदके । वशित्वं यतः पृथिव्यादिषु भूतेषु गोघटादिषु च भौतिकेषु वशी स्वतन्त्रो भवति । ईशित्वं यस्माद्धतिभौतिकेषु प्रभवस्थितिव्ययानामीष्टे । यत्र कामावसा - १५ यित्वं यतः सत्यसंकल्पता भवति, यथा ह्यस्य संकल्पो भवति भूतेषु तथैव भूतानि भवन्ति । अन्येषां हि निश्चया निश्चेतव्यमनुविधीयन्ते ऽस्य तु निश्चेतव्याः पदार्था निश्चयमिति । प्रवृत्तिश्चास्य सकलसंसारिजनानुग्रहार्थमिति । अयं हि कल्पप्रलयमहाप्रलयेषु समग्रं जगदुद्धरिष्यामीति प्रतिज्ञावानवतिष्ठते । अयं च योगिभिर्वाचकेन प्रणवेन जप्यमानस्तेभ्योऽभिमतं फलं प्रयच्छति । कालेनानवच्छेदाच्चासौ पूर्वेसामपि कपिल महर्षिप्रभृतीनां गुरुः । ते हि कल्पमहाकल्पादिकालेनावच्छिद्यन्ते न त्वीश्वर इति ।
२०
निःशेषां यः प्रतिकलमिमां भूर्भुवःस्वस्त्रिलोकीमेकः सम्यक्कलयतितरां शाश्वतैकस्वभावः ||
१' अनेन च ' इति प. भ. पुस्तकयोः पाठः ।
" Aho Shrut Gyanam"
४५३
५
२५