________________
४५४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ सिद्धस्तस्मादणिमलघिमाद्यष्टधैश्वर्यशाली
कर्मक्लेशैर्न खलु कलित: सोऽत्र देवः कपाली ॥ ४२१ ॥ स्वमक्रियाविरचनप्रगुणाशयेन
श्रद्धाजडेन भवता गदितं यदत्र ॥ किंचित्सखे कपिलदर्शनबद्धबुद्धे
तदप्यमाणमधुना शृणु सावधानः ॥ ४२२ ।। तथा हि यत्तावदवादि क्लेशेत्यादि तन्नोपपत्तिपथमवतरति । यतः क्लेशादिभिरपरामृष्टत्वमानं तस्य स्वरूपं तस्मिन्सत्यशेषज्ञत्वं वा।
प्रथमपक्षे मुक्त एवासौ स्यात्तैरपरामृष्टत्वात्तदन्यमुक्तवत् । न पुनरीश्वरः । १. अन्यथा तदन्यमुक्तानामपीश्वरत्वप्रसक्तिः । सर्वदा तैरपरामृष्टत्वे सत्य
शेषज्ञत्वं तस्य स्वरूपं वक्तव्यम् । तत् कुतः सिद्धम् ! अशेषकर्तृत्वादैश्वर्याश्रयत्वाद्वा । प्रथमपक्षे स किं स्वतन्त्रः सर्वं कार्यं कुर्यात्, प्रकृतिपरतन्त्रो वा । यदि स्वतन्त्रः, तदा नैयायिकाद्यभ्युपगतगिरीशान्न
विशिष्यत इति तद्दपणेनैव दुष्टताऽस्य प्रतिपत्तन्या । अथ प्रकृतिपर१५ तन्त्रः, तदपि न सुसूत्रम् । प्रकृतेः स्वरूपत एवासिद्धरसिद्धिश्चास्याः
पुरतः पराकरिप्यमाणत्वात् । प्रकृतिपरतन्त्रता च त्रिलोचनस्याऽतिशयाधानान्मिलित्वैककार्यकारित्वाद्वा स्यात् । न प्रथमपक्षः श्रेयान् । सर्वथा नित्यत्वेनाविकारिणः शङ्करस्य प्रकृत्यातिशयाधानासम्भवात् । द्वितीयप
क्षोऽपि न ज्यायान् । सकलकार्यागां योगपद्येनोत्पत्तिप्रसक्तेः । अप्रति२० हतसामर्थ्यस्य शङ्करप्रधानाख्यकारणयुग्मस्य नित्यसन्निहितत्वेना
विकलकारणत्वात्तेषाम् । अथ यद्यपि कारणयुग्ममेतन्नित्यसन्निहितं तथापि सकलकार्याणां न योगपद्येनोत्पत्तिः यस्मादीश्वरस्य प्रधानगतास्त्रयो गुणाः सहकारिणः सन्ति रजःप्रभृतयः । तेषां च क्रमेणोद्धृतवृत्तित्वा
कार्येप्वपि क्रमो भवति । तथा हि यदोद्भूतवृत्तिना रजसा युक्तो २५ भवति भर्गस्तदा सर्गहेतुः कार्याणाम् । यदा तथाविधेन सत्त्वेन
संसृज्यतेऽसौ तदा स्थितिहेतुस्तेषाम् । यदा पुनस्तादृशेन तमसा
"Aho Shrut Gyanam"