________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः समायुक्तोऽयं तदा प्रलयहेतुस्तेषामिति चेत् । तदप्ययुक्तम् । यतः प्रकृतीश्वरयोः सृष्टिस्थितिग्रलयानां मध्येऽन्यतमोत्पादने शक्तिरस्ति न वा । अस्ति चेत्, तर्हि सृष्टिसमयेऽपि स्थितिप्रलयप्रसक्तिरविकलकारणतया सृष्टिवत् । एवं स्थितिकालेऽपि सृष्टिप्रलययोः प्रलयकालेऽपि सृष्टिस्थित्योः प्रसक्तिः । न चैतद्युक्तम् । प्रतीतिविरोधात् । अथ ५ नास्ति सामर्थ्य तदैकमेव सृष्टयादीनां मध्ये कार्य सदा स्यात् । यजनने तयोः सामर्थ्यमस्ति, नापरं तज्जनने तयोः सामर्थ्यासम्भवात् । अविकारिणोश्चानयोः पुनः सामोत्पत्तिविरोधात् । अन्यथा नित्यैकस्वरूपताव्याहतिः । उद्धृतवृत्तित्वं च रजःसत्त्वतमसां नित्यमनित्यं वा भवेत् । न तावन्नित्यम्, कादाचित्कत्वात् । सृष्टयादि- १० योगपद्यप्रसक्तेश्च । अथाऽनित्यम् , तर्हि कुतो जायेत । प्रकृतीश्वरादेवाऽन्यतो वा स्वातन्त्र्येण वा । प्रथमपक्षे सदाऽप्यस्य सद्भावप्रसङ्गः । प्रकृतीश्वराख्यस्य हेतोः शाश्वतिकतया सदा सन्निहितत्वात् । अथान्यतः, तदपि स्वसिद्धान्तबाधाविधायकम् , प्रकृतीश्वरव्यतिरेकेणापरकारणस्य भवताऽनभ्युपगमात् । तृतीयपक्षे तु देशकालनियमे- १५ नास्याविर्भावविरोधः । स्वातन्त्र्येण भवतस्तन्नियमानुपपत्तेः । स्वभावान्तरायत्तप्रवृत्तयो हि भावाः कादाचित्काः स्युस्तद्भावाभावप्रतिबद्धत्वातत्सत्त्वासत्त्वयोः । नाऽन्ये । तेषामपेक्षणीयस्य कस्यचिदभावात् । अपेक्षणीयसद्भावे चा स्वातन्त्र्येणोत्पादविरोधात् । तन्न प्रकृतिपरतन्त्रोऽपि त्र्यक्षः सर्वकार्यकारी । कर्तृत्वाभ्युपगमे वाऽस्य "अकर्ता निर्गुणः शुद्धः" २० इत्यादेरात्मलक्षणस्यानुपपत्तिः । अथाऽन्यात्मनामेवैतल्लक्षणं नेश्वरस्य, तस्य तेभ्यो विशिष्टत्वात्तेनायमदोष इति ! नन्वेवं शुद्धत्वादेरपीश्वरस्वरूपत्वाभावप्रसङ्गादतीव तस्य तेभ्यो विशिष्टत्वं स्यात् । ततः सर्वकर्तृत्वस्य त्रिलोचने विचार्यमाणस्य कथञ्चिदप्यसिद्धनातस्तस्य सर्वज्ञत्वसिद्धिः । नाप्यैश्वर्याश्रयत्वात् । ऐश्वर्य हि तत्र स्वाभाविक २५ प्रकृतिकृतं वा स्यात् । न तावत्स्वाभाविकम्, बुद्धिधर्मतया सांख्यैः
"Aho Shrut Gyanam"