________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ स्तम्याभ्युपगमात् । चैतन्यमेव हि तैरात्मनि स्वाभाविक रूपमभ्युपगतम् । अथ प्रकृतिकृतम्, तथा हि यदा प्रकृतिर्बुद्धिलक्षणेन विकारेण परिणमते तदा बुद्धयवस्थाविशेषा धर्मज्ञानेश्वर्यादयः प्रादु
भवन्ति इति । एतदपि नोपपत्तिमत् । इत्थमीश्वरस्य त्वयैवैश्वर्याभाव५ प्रतिपादनात् । न खलु बुद्धिपरिणामस्यैश्वर्यस्यासम्भवे ततोऽर्थान्तरभूतस्य भूतपतेस्तद्युक्तम् । अन्यात्मनोऽपि तत्प्रसक्तेः । अथ प्रमथाधिपतेर्बुद्धया सह सम्बन्धात्तस्यैव तन्नान्यस्येत्युच्यते । ननु कोऽयमीश्वरेण साकं बुद्धेः सम्बन्धः, समवायः संयोगादिरीश्वरोद्देशेन प्रवृत्तिमानं वा । न तावत्समवायः । अन्यधर्मस्यान्यत्रानुपपत्तेः । यो यद्धर्मः स ततोऽन्यत्र न समवैति । यथा चिद्रूपता पुरुषस्य । प्रकृतिधर्मश्च बुद्धिः । तस्मात्ततोऽर्थान्तरशम्भौ न समवैतीति । न च स्फटिकादिसमवेतेन शोणिमादिधर्मेणानैकान्तः । जपापुष्पसन्निधाने स्फटिकादेरेव तथा परिणमनात् । एतच्च प्रतिबिम्बोदयविचारावसरे सविस्तरमुपपादयिष्यते । आत्मनोऽपि
बुद्धिरूपतया परिणते प्रकृतिसन्निधाने तथा परिणामाङ्गीकारे १५ चिच्छक्तिरपरिणामिनी, अप्रतिसंक्रमेत्यभ्युपगमविरोधः । तन्नेश्वरेण सह
बुद्धेः समवायलक्षणः सम्बन्धो युज्यते । नापि संयोगस्वरूपः । बुद्धेरद्रव्यत्वात् । अतिप्रसङ्गाच्च । सर्वैरप्यात्मभिनित्यव्यापिभिर्बुद्धेः संयोगो विद्यत एव । एतेन संयुक्तसमवायादिरपि प्रतिव्यूढः ।
असम्भवस्यातिप्रसङ्गस्यात्राप्यविशेषात् । अथेश्वरोद्देशेन प्रवृत्तिमात्रमे२० वास्यास्तेन सम्बन्धः । तदप्यसाधु । ईश्वरोद्देशेनास्याः प्रवृत्तेरसम्भ
चात् । पुरुषार्थकर्त्तव्यतावशेन हि प्रकृतेः प्रवर्त्तमानाया बुद्धयादयो विकारा व्यक्तिमासादयन्ति । न चेश्वरस्य कश्चित्पुरुषार्थः कर्तव्योऽस्ति । नित्यमुक्तत्वेनास्य कृतकृत्यत्वात् । कथं तमुद्दिश्य बुद्धिः प्रव
तेत । अप्रवृत्तायां चास्यां कथं तस्यैश्वर्यसम्भवः । तन्नैश्वर्याश्रयत्वादपि २५ तस्य सर्वज्ञत्वसिद्धिः । एवं च, ऐश्वर्ययोगाच्चायमीश्वर इत्यादिकं नन्वीश्वर इत्यन्तं सर्वं प्रत्युक्तमवगन्तव्यमिति । १' संबन्धसद्भावात् ' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"