Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 211
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ स्तम्याभ्युपगमात् । चैतन्यमेव हि तैरात्मनि स्वाभाविक रूपमभ्युपगतम् । अथ प्रकृतिकृतम्, तथा हि यदा प्रकृतिर्बुद्धिलक्षणेन विकारेण परिणमते तदा बुद्धयवस्थाविशेषा धर्मज्ञानेश्वर्यादयः प्रादु भवन्ति इति । एतदपि नोपपत्तिमत् । इत्थमीश्वरस्य त्वयैवैश्वर्याभाव५ प्रतिपादनात् । न खलु बुद्धिपरिणामस्यैश्वर्यस्यासम्भवे ततोऽर्थान्तरभूतस्य भूतपतेस्तद्युक्तम् । अन्यात्मनोऽपि तत्प्रसक्तेः । अथ प्रमथाधिपतेर्बुद्धया सह सम्बन्धात्तस्यैव तन्नान्यस्येत्युच्यते । ननु कोऽयमीश्वरेण साकं बुद्धेः सम्बन्धः, समवायः संयोगादिरीश्वरोद्देशेन प्रवृत्तिमानं वा । न तावत्समवायः । अन्यधर्मस्यान्यत्रानुपपत्तेः । यो यद्धर्मः स ततोऽन्यत्र न समवैति । यथा चिद्रूपता पुरुषस्य । प्रकृतिधर्मश्च बुद्धिः । तस्मात्ततोऽर्थान्तरशम्भौ न समवैतीति । न च स्फटिकादिसमवेतेन शोणिमादिधर्मेणानैकान्तः । जपापुष्पसन्निधाने स्फटिकादेरेव तथा परिणमनात् । एतच्च प्रतिबिम्बोदयविचारावसरे सविस्तरमुपपादयिष्यते । आत्मनोऽपि बुद्धिरूपतया परिणते प्रकृतिसन्निधाने तथा परिणामाङ्गीकारे १५ चिच्छक्तिरपरिणामिनी, अप्रतिसंक्रमेत्यभ्युपगमविरोधः । तन्नेश्वरेण सह बुद्धेः समवायलक्षणः सम्बन्धो युज्यते । नापि संयोगस्वरूपः । बुद्धेरद्रव्यत्वात् । अतिप्रसङ्गाच्च । सर्वैरप्यात्मभिनित्यव्यापिभिर्बुद्धेः संयोगो विद्यत एव । एतेन संयुक्तसमवायादिरपि प्रतिव्यूढः । असम्भवस्यातिप्रसङ्गस्यात्राप्यविशेषात् । अथेश्वरोद्देशेन प्रवृत्तिमात्रमे२० वास्यास्तेन सम्बन्धः । तदप्यसाधु । ईश्वरोद्देशेनास्याः प्रवृत्तेरसम्भ चात् । पुरुषार्थकर्त्तव्यतावशेन हि प्रकृतेः प्रवर्त्तमानाया बुद्धयादयो विकारा व्यक्तिमासादयन्ति । न चेश्वरस्य कश्चित्पुरुषार्थः कर्तव्योऽस्ति । नित्यमुक्तत्वेनास्य कृतकृत्यत्वात् । कथं तमुद्दिश्य बुद्धिः प्रव तेत । अप्रवृत्तायां चास्यां कथं तस्यैश्वर्यसम्भवः । तन्नैश्वर्याश्रयत्वादपि २५ तस्य सर्वज्ञत्वसिद्धिः । एवं च, ऐश्वर्ययोगाच्चायमीश्वर इत्यादिकं नन्वीश्वर इत्यन्तं सर्वं प्रत्युक्तमवगन्तव्यमिति । १' संबन्धसद्भावात् ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242