Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 213
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि.२ सू. २७ कथं तस्य शरीरे औदारिकत्वव्यपदेशः स्यादित्यपि नारेकणीयम् । न खलु तत्र कवलाहारनिबन्धनमौदारिकव्यपदेशं प्रतिजानते सन्तः । किं तर्हि प्रधानपुद्गलारब्धत्वनिबन्धनम् । उदारैः सर्वपुद्गलराशिमध्यप्रधानैः पुद्गलैरारब्धमौदारिकमिति व्युत्पत्तेः । यदपि “ सुहुमिगिन्दियपभई ५ जाक्सजोगिकेवलित्ति सवे आहारगा जीवा " इत्यनेन वचनेनैकेन्द्रियप्रभृतीनां सयोगिपर्यवसानानां प्राणिनामाहारवत्त्वेन सूत्रे प्रतिपादनात्कवलाहारित्वं केवलिन: सितवाससः प्रतिपेदिरे । तदपि सूत्रार्थानवबोधविजृम्भितम् । तत्र हि सूत्रे भगवतः केवलिन एकेन्द्रियादिभिः सह निर्देशान्निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमात्रमाहार१० त्वेन विवक्षितम् । अन्यथा निरन्तराहारः कवलाहारेण भगवान्केवली भवेत् । न चैतदिष्टं भवद्भिरपि । अथैकेन्द्रियादिभिः सह निर्देशेऽपि निरन्तराहारोपदेशेऽपि च सूत्रे यथासम्भवमाहारवत्त्वव्यवस्थितेः केवलिनः कालाहारोऽपि कादाचित्को व्यवस्थाप्यते । इतरथाऽम्मदादेरिव तस्य दीर्घकालं देह स्थितेरभावप्रसंगादित्यभिधीयते । तदपि न परीक्षा१५ क्षमम् । एवं हि सर्वज्ञतानिश्चयोऽपि तत्र दुर्लभः स्यात् । काव लिकाहारोपलब्धशरीरेऽस्मदादावसर्वज्ञत्वस्यैवोपलम्पमात् । समाकर्ण्यते च समये कावलिकाहार विनाऽप्यौदारिकदेहावस्था नातिशयः प्रथमतीर्थाधिनाथप्रमुखाणाम् । तथा हि । श्रीनाभेयजिनेश्वरः किल पुरा पीनांसपीठी लुठत् २० कालिन्दीजलनीलकुन्तलजटाजालं सलीलं वहन् । १ न शकनीयम् ! २ तत्त्वार्थ. अ. २ स. २. ३ चैत्रबहुलस्य अष्टमांदिवसे दिवसस्य पश्चिमे भागे सुदर्शनायां नाम शिबिकायां देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्ग : यावत् विनिसायाः नगर्याः मध्यभागेन निर्गच्छति निर्गत्य यत्रैव सिद्धार्थवन मुद्यानं यत्रैव अशोकनामा प्रधानवृक्षः तनैवोपागच्छति । उपागत्य अशोकवृक्षस्याधः यावदात्म् - नैव चतुमौष्टिक लांच करोति । चतसृभिमुष्टिभिलौंचे कृते सति अवशिष्ट एका मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लुठन्ती कनककलशोपरि विराजमानां नीलकमल मालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242