________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि.२ सू. २७ कथं तस्य शरीरे औदारिकत्वव्यपदेशः स्यादित्यपि नारेकणीयम् । न खलु तत्र कवलाहारनिबन्धनमौदारिकव्यपदेशं प्रतिजानते सन्तः । किं तर्हि प्रधानपुद्गलारब्धत्वनिबन्धनम् । उदारैः सर्वपुद्गलराशिमध्यप्रधानैः
पुद्गलैरारब्धमौदारिकमिति व्युत्पत्तेः । यदपि “ सुहुमिगिन्दियपभई ५ जाक्सजोगिकेवलित्ति सवे आहारगा जीवा " इत्यनेन वचनेनैकेन्द्रियप्रभृतीनां सयोगिपर्यवसानानां प्राणिनामाहारवत्त्वेन सूत्रे प्रतिपादनात्कवलाहारित्वं केवलिन: सितवाससः प्रतिपेदिरे । तदपि सूत्रार्थानवबोधविजृम्भितम् । तत्र हि सूत्रे भगवतः केवलिन एकेन्द्रियादिभिः
सह निर्देशान्निरन्तराहारोपदेशाच्च शरीरप्रायोग्यपुद्गलग्रहणमात्रमाहार१० त्वेन विवक्षितम् । अन्यथा निरन्तराहारः कवलाहारेण भगवान्केवली
भवेत् । न चैतदिष्टं भवद्भिरपि । अथैकेन्द्रियादिभिः सह निर्देशेऽपि निरन्तराहारोपदेशेऽपि च सूत्रे यथासम्भवमाहारवत्त्वव्यवस्थितेः केवलिनः कालाहारोऽपि कादाचित्को व्यवस्थाप्यते । इतरथाऽम्मदादेरिव
तस्य दीर्घकालं देह स्थितेरभावप्रसंगादित्यभिधीयते । तदपि न परीक्षा१५ क्षमम् । एवं हि सर्वज्ञतानिश्चयोऽपि तत्र दुर्लभः स्यात् । काव
लिकाहारोपलब्धशरीरेऽस्मदादावसर्वज्ञत्वस्यैवोपलम्पमात् । समाकर्ण्यते च समये कावलिकाहार विनाऽप्यौदारिकदेहावस्था नातिशयः प्रथमतीर्थाधिनाथप्रमुखाणाम् । तथा हि ।
श्रीनाभेयजिनेश्वरः किल पुरा पीनांसपीठी लुठत् २० कालिन्दीजलनीलकुन्तलजटाजालं सलीलं वहन् ।
१ न शकनीयम् ! २ तत्त्वार्थ. अ. २ स. २.
३ चैत्रबहुलस्य अष्टमांदिवसे दिवसस्य पश्चिमे भागे सुदर्शनायां नाम शिबिकायां देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्ग : यावत् विनिसायाः नगर्याः मध्यभागेन निर्गच्छति निर्गत्य यत्रैव सिद्धार्थवन मुद्यानं यत्रैव अशोकनामा प्रधानवृक्षः तनैवोपागच्छति । उपागत्य अशोकवृक्षस्याधः यावदात्म् - नैव चतुमौष्टिक लांच करोति । चतसृभिमुष्टिभिलौंचे कृते सति अवशिष्ट एका मुष्टिं सुवर्णवर्णयोः स्कन्धयोरुपरि लुठन्ती कनककलशोपरि विराजमानां नीलकमल मालामिव विलोक्य हृष्टचित्तस्य शक्रस्य आग्रहेण रक्षितवान् ।
"Aho Shrut Gyanam"