________________
४५९
परि. २ सू. २७] स्याद्वादरत्नाकरसहितः प्रव्रज्यासमनन्तरं निरशनः सम्पूर्णसंवत्सरं
म्लेच्छप्रायबहुप्रकारविषयेष्वेको विहारं व्यधात् ॥ ४२५ ।। एवं बाहुबली मुनिः स भगवान्नानाविधैः पक्षिभि
श्वञ्चत्कूर्चकचप्रपञ्चरचितप्रालम्बिनीडब्रजः ॥ कायोत्सर्गविधौ स्थितः स्थिरमतिर्वघोंपवासान्व्यधा
दुद्दामातिशयान्सखे कति यतीन्यद्वेदृशान्महे ।। ४२६ !!
१ भगवांश्चान्नपानादिदानाकुशलैः समृद्धिमद्भिर्जनर्वस्त्राभरणकन्यादिभिर्निमन्यमाणोऽपि योग्यां भिक्षां अलभमानोऽदीनमनाः कुरुदेशे हस्तिनागपुरे प्रविष्टः। तत्र च बाहुबलिसुतसोमप्रभसुतः श्रेयांसो युवराजः । स च मया श्यामवर्णो मेरुरमृतकलशेनाभिषिक्तोऽतीच शोभितवानिति स्वप्नं दृष्टवान् । सबुद्धिनामा नगरश्रेष्ठी सूर्यमण्डलात्तस्तं किरणसहस्र पुनः श्रेयांसेन तत्र योजितं ततस्तदतीवा. शोभत इति स्वप्रमैक्षत् । राजापि स्वप्ने महापुरुष एको रिपुत्रलेन युध्यमानः श्रेयांससहायाजयी जात इति ददर्श । त्रयोऽपि प्राप्ताः समाया सम्भूय स्वप्रान् परस्परं न्यवेदयन् । ततो राजा कोऽपि श्रेयासस्य महान् लाभो भाषीति निर्णीय विसर्जितायां पर्षदि श्रेगंसोऽपि स्वभवने गत्वा गवाक्षस्थः स्वामी न किञ्चिलातीति जनकोलाहलं श्रुत्वा स्वामिनं वीक्ष्य च मया कापीदृशं नेपथ्यं दृष्टपूर्व इतीहापोहं कुर्वन् जातिस्मरणं प्राप । अहोऽहं पूर्वभवे भगवतः सारथिर्भगवता सह दीक्षां गृहीतवान् । ता च वज्रसेनजिनेन कथितमासीत् यदयं वज्रनाभो भरतक्षेत्रे प्रथमो जिनो भावति स एष भगवान् तदानीमेव तस्यैको मनुष्यः प्रधानेक्षुरसकुम्भसमुहप्राभृतमादायागतः । तताऽसौ तत्कुम्भमादाय भगवन् : गृहाणेमां योग्यां भिक्षामिति जगाद । भगवताऽपि पाणी प्रसारितौ निसृष्टश्च तेन सर्वोऽपि रसः । न चात्र बिन्दुरग्यधः पतति । किन्तूपरि शिखा वर्धते । ततस्तेन रसेन भगवता सांवत्सरिकतपःपारणा कृता ।
२ भरतबाहुबलियुद्धवर्णने यथा-बाहुबलि: क्रोधान्धदपोंदुरः सन् स्वसैन्ययुतः सम्मुखमागत्य भरतेन सह द्वादशवर्षी यावयुद्ध मकरोत् परं न च हारितः । तदा शक्रेणागत्य भूयस्तरजनसंहारं भवन्तं ज्ञात्वा दृष्टेिवाङ्मुष्टिदण्डलक्षणाश्चत्वारो युद्धाः प्रतिष्ठिताः तेष्वपि भरतस्य पराजयो जजे । तदा भरतेन क्रोधान्न बाहुबलिन: उपरि चक्रं मुक्तं परमेकगोत्रीयत्वात्तत्तं न पराभवत् । तदाऽमर्षवशा. द्भरतं हन्तुमना मुष्टिमुत्पाटय धावन् बाहुबलिरहो पितृतुल्यज्येष्ठभ्रातृहननं ममानुचितमेव ! उत्पातिता मुष्टिरपि कथं मोघा भवेदिति विचार्य स्वशिरसि तां मुक्त्वा लोचं कृत्वा सर्वं च त्यक्त्वा कायोत्सर्ग चक्के ।
"Aho Shrut Gyanam"