Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 209
________________ ४५४ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ सिद्धस्तस्मादणिमलघिमाद्यष्टधैश्वर्यशाली कर्मक्लेशैर्न खलु कलित: सोऽत्र देवः कपाली ॥ ४२१ ॥ स्वमक्रियाविरचनप्रगुणाशयेन श्रद्धाजडेन भवता गदितं यदत्र ॥ किंचित्सखे कपिलदर्शनबद्धबुद्धे तदप्यमाणमधुना शृणु सावधानः ॥ ४२२ ।। तथा हि यत्तावदवादि क्लेशेत्यादि तन्नोपपत्तिपथमवतरति । यतः क्लेशादिभिरपरामृष्टत्वमानं तस्य स्वरूपं तस्मिन्सत्यशेषज्ञत्वं वा। प्रथमपक्षे मुक्त एवासौ स्यात्तैरपरामृष्टत्वात्तदन्यमुक्तवत् । न पुनरीश्वरः । १. अन्यथा तदन्यमुक्तानामपीश्वरत्वप्रसक्तिः । सर्वदा तैरपरामृष्टत्वे सत्य शेषज्ञत्वं तस्य स्वरूपं वक्तव्यम् । तत् कुतः सिद्धम् ! अशेषकर्तृत्वादैश्वर्याश्रयत्वाद्वा । प्रथमपक्षे स किं स्वतन्त्रः सर्वं कार्यं कुर्यात्, प्रकृतिपरतन्त्रो वा । यदि स्वतन्त्रः, तदा नैयायिकाद्यभ्युपगतगिरीशान्न विशिष्यत इति तद्दपणेनैव दुष्टताऽस्य प्रतिपत्तन्या । अथ प्रकृतिपर१५ तन्त्रः, तदपि न सुसूत्रम् । प्रकृतेः स्वरूपत एवासिद्धरसिद्धिश्चास्याः पुरतः पराकरिप्यमाणत्वात् । प्रकृतिपरतन्त्रता च त्रिलोचनस्याऽतिशयाधानान्मिलित्वैककार्यकारित्वाद्वा स्यात् । न प्रथमपक्षः श्रेयान् । सर्वथा नित्यत्वेनाविकारिणः शङ्करस्य प्रकृत्यातिशयाधानासम्भवात् । द्वितीयप क्षोऽपि न ज्यायान् । सकलकार्यागां योगपद्येनोत्पत्तिप्रसक्तेः । अप्रति२० हतसामर्थ्यस्य शङ्करप्रधानाख्यकारणयुग्मस्य नित्यसन्निहितत्वेना विकलकारणत्वात्तेषाम् । अथ यद्यपि कारणयुग्ममेतन्नित्यसन्निहितं तथापि सकलकार्याणां न योगपद्येनोत्पत्तिः यस्मादीश्वरस्य प्रधानगतास्त्रयो गुणाः सहकारिणः सन्ति रजःप्रभृतयः । तेषां च क्रमेणोद्धृतवृत्तित्वा कार्येप्वपि क्रमो भवति । तथा हि यदोद्भूतवृत्तिना रजसा युक्तो २५ भवति भर्गस्तदा सर्गहेतुः कार्याणाम् । यदा तथाविधेन सत्त्वेन संसृज्यतेऽसौ तदा स्थितिहेतुस्तेषाम् । यदा पुनस्तादृशेन तमसा "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242