Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 208
________________ परि. २ सू. २६ ] स्याद्वादरत्नाकर सहितः " इति । अनेन बन्धत्रयेण सकलकालमनाकलितः कलानिधि कलावचूल एव भगवान् । तदपरे त्वात्मनो बन्धत्रयमिदं विवेकज्ञानेन समूलमुन्मूल्य मुक्ताः सम्पद्यन्ते । नित्यमुक्तस्य चेश्वरस्य न पूर्वा बन्धकोटिरस्ति । यथा संसारिमुक्तात्मनाम् । नाप्युत्तरा । यथा प्रकृतिलीनतत्त्वज्ञानानां योगिनाम् । ते हि मुक्ति प्राप्याऽपि पुनर्बन्धभाजो जायन्ते । ऐश्वर्ययोगाद्वाऽयमीश्वरः । तच्चैश्वर्यमष्टप्रकारम् । तद्यथा, अणिमा, लधिमा, महिमा, प्राप्तिः, प्राकाम्यं, वशित्वं, ईशित्वं यत्र कामावसायित्वं चेति । तत्राणिमा भवत्यणुः । यतः सर्वभूतैरदृश्यः सन् सर्वत्र लोके संचरति । लघिमा लघुर्भवति । यतः सूर्यमरीची नालम्ब्य सूर्यलोकं याति । महिमा महान् भवति । यस्मादल्पोऽपि नागनग- १० नगरगगनपरिमाणः सम्पद्यते । प्राप्तिर्यतः सर्वे भावाः सन्निहिता भवन्ति । तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् । प्राकाम्यमिच्छानभिघातः । यतो भूमान्मज्जति निमज्जति च यथोदके । वशित्वं यतः पृथिव्यादिषु भूतेषु गोघटादिषु च भौतिकेषु वशी स्वतन्त्रो भवति । ईशित्वं यस्माद्धतिभौतिकेषु प्रभवस्थितिव्ययानामीष्टे । यत्र कामावसा - १५ यित्वं यतः सत्यसंकल्पता भवति, यथा ह्यस्य संकल्पो भवति भूतेषु तथैव भूतानि भवन्ति । अन्येषां हि निश्चया निश्चेतव्यमनुविधीयन्ते ऽस्य तु निश्चेतव्याः पदार्था निश्चयमिति । प्रवृत्तिश्चास्य सकलसंसारिजनानुग्रहार्थमिति । अयं हि कल्पप्रलयमहाप्रलयेषु समग्रं जगदुद्धरिष्यामीति प्रतिज्ञावानवतिष्ठते । अयं च योगिभिर्वाचकेन प्रणवेन जप्यमानस्तेभ्योऽभिमतं फलं प्रयच्छति । कालेनानवच्छेदाच्चासौ पूर्वेसामपि कपिल महर्षिप्रभृतीनां गुरुः । ते हि कल्पमहाकल्पादिकालेनावच्छिद्यन्ते न त्वीश्वर इति । २० निःशेषां यः प्रतिकलमिमां भूर्भुवःस्वस्त्रिलोकीमेकः सम्यक्कलयतितरां शाश्वतैकस्वभावः || १' अनेन च ' इति प. भ. पुस्तकयोः पाठः । " Aho Shrut Gyanam" ४५३ ५ २५

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242