Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
૮
५
प्रमाणन यत्तत्त्वा लोकालङ्कारः
[ परि. २ सु. २६
कथमपूर्वकर्मसंचयंकर्तृत्वमिति न किंचिदेतत् । तस्मान्न बुद्धिपूर्विके
श्वरप्रवृत्तिः ।
२०
स्वभावत्वादेवासी प्रवर्त्तत इति चेत् । एवं सति सतोऽपि चैतन्यस्य प्रवृत्त्यनङ्गत्वादचेतनस्यैव स्वभावः किं स्वभावत्वादेवेश्वरस्य प्रवृ-नेप्यते, किमदृष्टकल्पनया | कारकशक्तिपरिज्ञान
तिरित्यस्य पक्षस्यान्यान्य
पक्षाणां च खण्डनम् | लक्षणस्यास्त्येव चैतन्यस्य प्रवृत्तिं प्रत्यङ्गभावस्तत्परिज्ञानाभावेऽधिष्ठातृव्यापारायोगात् । केवलमिदमित्थं स्वार्थं परार्थं वा करोमीति चेतनाया अभावात्स्वभावतः करोतीत्युच्यत इति चेत् । ननु तत्कारकशक्तिपरिज्ञानं कतिपयकारक - १० शक्तिविषयं समस्तकारकशक्तिविषयं वा । आद्यकल्पनायामधिष्ठातुरसर्वज्ञत्वम् । किं चैतन्नित्यमनित्यं वा । नित्यं चेत्, तदा कारकशक्तिपरिज्ञानस्य नित्यत्वात्सर्वदा तत्कार्यस्योत्पत्तिः स्यात् । अथ न कारकशक्तिपरिज्ञानमित्येवं कार्यस्योत्पत्तिः, किन्तु यदा कारकं तेनाधिष्ठितं भवति, न च यज्ज्ञानं तदधिष्ठीयत एवेति नियमः, किन्तु १५ ज्ञानमेवा धिष्ठीयत इति, ततो न कश्चिद्दोषः । तदसत् । यतः प्रयत्न
गोचरीभूयमापन्नत्वमधिष्ठितत्वमुच्यते । प्रयत्नस्यापि च नित्यत्वात्तदवस्था सदा तत्कार्योत्पत्तिः । अथानित्यं तत्, यदा हि यत्कारकं यत्कार्थमुत्पादयति तच्छक्तिपरिज्ञानमपि तदैवास्योत्पद्यते । तदप्ययुक्तम् । यतो यदि कारकं तावत्स्वयमेव कार्योत्पादनप्रागल्भ्यमभ्यस्यति तदा तच्छक्तिपरिज्ञानेन सिद्धोपस्थायिना किं नाम कर्तव्यम् । अथ यदा यत्कारकशक्तिगोचरं संवेदनं जायते तदा तत्कारकं कार्यं करोतीत्युच्यते । नन्वेतस्य विज्ञानस्य प्रतिनियतकारकशक्तिगोचरतायां किं नियामकम् । न खल्वेत दैन्द्रियकं मानसं वा । तद्धि यत्र यत्रेन्द्रियं मनो वा व्यापिपर्ति तत्र तत्र समुत्पाद्यत इति युक्तम् । ईश्वरस्य २५ त्विन्द्रियमनसोरभावात्कथमेवं प्रतिनियमः | अथ समस्तकारकशक्तिविषयं तत्परिज्ञानम् । ननु तदपि नित्यमनित्यं वा । यद्यनित्यम् ।
" Aho Shrut Gyanam".

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242