Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 199
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ यच्च वाचस्पतिना कार्यतानुमानात्कस्यचित्तनुभुवनाद्यभिज्ञतां प्रसाध्य ... सर्वज्ञतासिद्धये परिशेषानुमानं व्यतिरेकापरपर्यावाचस्पत्यभिमतस्य कर्तुः सर्वज्ञत्वोपपादानप्रकारस्य यमुद्यते । तनुभुवनाद्युपादानाद्यभिज्ञः कर्ता तदुपादनप्रकारान्तरस्य नानित्यासर्वविषयवुद्धिमान् । तत्कर्तुस्तदुपादा पर नाद्यनभिज्ञत्वप्रसङ्गात् । न ह्येवंविधस्तदुपादानाद्यभिज्ञो दृष्टो यथाऽस्मदादिः । तदुपादानाद्यभिज्ञश्चायम् । तस्मात्तथेति । तदपि प्रोक्तनीत्या निराकृतमवसेयम् । एवं तस्यैकत्वनिश्चयाभावात् । अनित्यासर्वविषयबुद्धिमत्त्वेऽप्युपादानादिवेदनसम्भवस्योपपादितत्वात् । ननु छाणुकस्यापि कार्यत्वात्कर्ता तदुपादानपरमाणुदर्शनायैषितव्यः । न १० च मांसचक्षुषस्तथा भवितुमर्हन्ति । अन्यथा किमम्मदादिभिरपराद्धम् । यत्तथा न भवामः । तदवश्यं तत्काऽतीन्द्रियदर्शी स्वीक्रियमाणो नेश्वरादन्यो युक्तः । तदपि न युक्तम् । न हि मांसचक्षुष्टेऽपि सर्वेषां साधारणं करणसामर्थ्यम् । अस्मदत्यन्तापकृष्टानामपि पिपीलिकागृध्रवराहादीनामिन्द्रियपाटवातिशयदर्शनात् । क्षोदिष्ठानामेव च केषांचित्परमाणुदर्शनमपि स्यात् । कर्मशक्तिविशेषात् । यथा पिपीलिकानामस्मदगोचरगन्धाणुग्रहणम् । न च कैश्चित्परमाणुरूपसूक्ष्मपदार्थप्रेक्षणे देशकालविप्रकृष्टस्य सूक्ष्मान्तरस्य सकलस्थूलस्य वा तैर्दर्शनं स्यात् । पिपीलिकादिनिदर्शनेनैव कृतोत्तरत्वात् । एवं तर्हि भवतु परमाणोर्दर्शनसम्भावना सकलक्षेत्रज्ञतत्समवेतकाशयविशेषाणां तु २० कथमिति चेत् । न कथंचिदिति ब्रूमः । न हि कार्यक्रिया क्षेत्रज्ञस्वरूपादिपरिज्ञानेनापि व्याप्ता कुलालादौ दृष्टा । किन्तु सम्प्रदानोपकरणवेदनद्वारेण तदाकृष्टिरिप्यते । सा च प्रस्तुतेऽशक्या । उक्तक्रमेणापि तन्मात्रवेदनस्य चरितार्थत्वात् । कर्मणा स्वस्याभि प्रेर्यमाणत्वेन सम्प्रदानताया दुर्वारत्वात् । यथा स्वस्मै मन्दिरं २५ करोमीति । अन्यथाऽनेनैव व्यभिचारप्रसङ्गः । तत्र परसम्प्रदानवेदन १' सम्भवेनासकल ' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242