Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 193
________________ प्रमाणन यतत्त्वालोकालङ्कारः [ परि. २ सू. २६ विज्ञातांस्ते न प्रवर्त्तन्ते । कुम्भाद्युपायेषु तथानुपलम्भादिति चेत् । तर्हि ज्ञानवचिकीर्षाप्रयत्नावप्यास्थेयौ । तत्रापि च ज्ञानं साक्षाञ्चिकीर्षा - विशेष उपयुज्यते । स च प्रयत्नभेदे इति प्रयत्न एव साक्षात्कार्यो - त्पादहेतुरिति कथं तमन्तरेण तत्सम्भवः । न हि वह्निमन्तरेण प्रचुरतर५ दारुसंघट्टमात्राद्वट्वेटिकास्फुटस्फुरत्फूत्कारमारुतमात्राद्वा सिध्यत्योदनः । तस्मादष्टगुणाधिकरणमेवेश्वरोऽतः सिध्यतु । तदपि न साधीयः । यतोऽस्येच्छाप्रयलौ नित्यावनित्यौ वा स्याताम् । नित्यौ चेत्, कृतमीश्वरस्य ज्ञानेन चिकीर्षाप्रयत्नानुपयोगिना । तयोर्नित्यतया स्वोत्पादोपयोगानपेक्षणात् । न च प्रयत्नवदस्य ज्ञानमपि साक्षात्कार्योत्पाद१० नाङ्गम् । प्रयत्नभेदे तथैव खल्वयमधितिष्ठत्युपादानादि न तु तत्समये ज्ञानस्य कस्यचिदुपयोगश्चिकीर्षाया वा । निष्पादितक्रिये कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायादिति दत्तजलाञ्जलिरीश्वरस्य सर्वज्ञता । उक्तं चैतत्प्रागेव । अथानित्यौ तौ । तर्हि तयोरुत्पत्तिकारणं वक्तव्यम् । ननु नित्यज्ञानमेवोत्पत्तिमूलकारणमस्ति १५ तत्किमपरेण कारणेनेति चेत् । अहो बत प्रमादः, यदयमात्ममन:संयोगविशेषासमवायिकारणाविच्छाप्रयत्तौ तमन्तरेण ज्ञानमात्रादेव भवति इत्यपि वक्तुमध्यवसितः । तथा सत्ययमतण्डुलमपि मण्डं साधयेदेव । सन्त्येवास्य मुक्तात्ममनोभिः संयोगास्तेन तत्सहायस्तत्र तत्र चिकीर्षा - प्रयत्नावयं युगपत्प्रसूते तत्कार्योपजननायेति चेत् । ननु मनांसि तत्सं२० योगाश्च किमन धिष्ठितानि चिकीर्षाप्रयत्तौ प्रस्तुवाले अधिष्ठितानि वा । यद्यनविष्ठितानि । तदैताभ्यामेव चिकीर्षाप्रियत्राभ्यां कार्यत्वहेतोर्व्यामि - चारः । अधिष्ठानं तु प्रयत्नमन्तरेणायुक्तमेव । प्रयत्नान्तरेण चिकीर्षा - न्तरजन्मना तदधिष्ठानम् । न चानवस्था | अभ्युपगमनत्वान्विकीर्षाप्रयत्नप्रवाहस्येति चेत् । नन्वयमुत्पन्नसंजिहीर्ष ईश्वरः क्षेत्रज्ञेषु प्रति२५ बद्धद्वृत्तिधर्म्माधर्म्मनिचयेषु जगति च परमाण्ववस्थामापन्ने निर्व्यापारः કરંટ १ न्यायातिपातात् ' इति प. भ. पुस्तकयोः पाठः । 4 "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242