________________
प्रमाणन यतत्त्वालोकालङ्कारः
[ परि. २ सू. २६
विज्ञातांस्ते न प्रवर्त्तन्ते । कुम्भाद्युपायेषु तथानुपलम्भादिति चेत् । तर्हि ज्ञानवचिकीर्षाप्रयत्नावप्यास्थेयौ । तत्रापि च ज्ञानं साक्षाञ्चिकीर्षा - विशेष उपयुज्यते । स च प्रयत्नभेदे इति प्रयत्न एव साक्षात्कार्यो - त्पादहेतुरिति कथं तमन्तरेण तत्सम्भवः । न हि वह्निमन्तरेण प्रचुरतर५ दारुसंघट्टमात्राद्वट्वेटिकास्फुटस्फुरत्फूत्कारमारुतमात्राद्वा सिध्यत्योदनः । तस्मादष्टगुणाधिकरणमेवेश्वरोऽतः सिध्यतु । तदपि न साधीयः । यतोऽस्येच्छाप्रयलौ नित्यावनित्यौ वा स्याताम् । नित्यौ चेत्, कृतमीश्वरस्य ज्ञानेन चिकीर्षाप्रयत्नानुपयोगिना । तयोर्नित्यतया स्वोत्पादोपयोगानपेक्षणात् । न च प्रयत्नवदस्य ज्ञानमपि साक्षात्कार्योत्पाद१० नाङ्गम् । प्रयत्नभेदे तथैव खल्वयमधितिष्ठत्युपादानादि न तु तत्समये ज्ञानस्य कस्यचिदुपयोगश्चिकीर्षाया वा । निष्पादितक्रिये कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायादिति दत्तजलाञ्जलिरीश्वरस्य सर्वज्ञता । उक्तं चैतत्प्रागेव । अथानित्यौ तौ । तर्हि तयोरुत्पत्तिकारणं वक्तव्यम् । ननु नित्यज्ञानमेवोत्पत्तिमूलकारणमस्ति १५ तत्किमपरेण कारणेनेति चेत् । अहो बत प्रमादः, यदयमात्ममन:संयोगविशेषासमवायिकारणाविच्छाप्रयत्तौ तमन्तरेण ज्ञानमात्रादेव भवति इत्यपि वक्तुमध्यवसितः । तथा सत्ययमतण्डुलमपि मण्डं साधयेदेव । सन्त्येवास्य मुक्तात्ममनोभिः संयोगास्तेन तत्सहायस्तत्र तत्र चिकीर्षा - प्रयत्नावयं युगपत्प्रसूते तत्कार्योपजननायेति चेत् । ननु मनांसि तत्सं२० योगाश्च किमन धिष्ठितानि चिकीर्षाप्रयत्तौ प्रस्तुवाले अधिष्ठितानि वा । यद्यनविष्ठितानि । तदैताभ्यामेव चिकीर्षाप्रियत्राभ्यां कार्यत्वहेतोर्व्यामि - चारः । अधिष्ठानं तु प्रयत्नमन्तरेणायुक्तमेव । प्रयत्नान्तरेण चिकीर्षा - न्तरजन्मना तदधिष्ठानम् । न चानवस्था | अभ्युपगमनत्वान्विकीर्षाप्रयत्नप्रवाहस्येति चेत् । नन्वयमुत्पन्नसंजिहीर्ष ईश्वरः क्षेत्रज्ञेषु प्रति२५ बद्धद्वृत्तिधर्म्माधर्म्मनिचयेषु जगति च परमाण्ववस्थामापन्ने निर्व्यापारः
કરંટ
१ न्यायातिपातात् ' इति प. भ. पुस्तकयोः पाठः ।
4
"Aho Shrut Gyanam"