________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः तदप्यनिपुणम् । पक्षधर्मता हि साध्यस्य पक्षायोगव्यवच्छेदमात्रमेव दर्शयति धूमानुमानादौ तथैव दर्शनात् । अन्यथा धूमात् क्षितिधरकुहरायोगव्यवच्छेदवद्वः पञ्चवर्णशिखाकलापताया अप्यनुमानप्रसङ्गः । नात्र सामर्थ्यमिति चेत्, एवं तर्हि समायात पक्षायोगव्यवच्छेदमात्र एक सामर्थ्यम् । एवमिहापि पक्षधर्मताबलात्पक्षायोगव्यवच्छेदमात्र- ५ सिद्धिरस्तु । नित्यज्ञानस्तु कर्ता कथं सिद्धयेत् । नहि महीधरादि कार्यमिति तत् कचिन्नित्यज्ञानेन भवितव्यमिति भवति । मतिमन्मात्रेण तत्कर्तृत्वमनुपपद्यमानं नित्यज्ञानं स्वकर्तारमाक्षिपतीति चेत् । यद्येवं प्रमाणान्तरप्रसाद एषः । अन्यथानुमितानुमानोच्छेदैः । न च नेष्टं तत् । इच्छादयः समवायिकारणवन्तो गुणत्वादित्यस्मादिच्छादीनां १० समवायिकारणवत्त्वं प्रसाध्य परिशेषानुमानादष्टद्रव्यातिरिक्तस्यात्मरूपद्रव्यविशेषस्य साधनात् । किं च पक्षधर्मतावशादधिष्ठातृविशेषो निखिलविषयवर्तिनित्यविज्ञानमात्रशाली कपाली सिद्धचतीति षड्गुणेश्वरवादिनां मतम् । तच्चाष्टगुणेश्वरवादिनो न क्षमन्ते । वदन्ति च नोपादानादिज्ञानमात्रेण विश्वकार्यजातमुत्पत्तुमर्हति । न जातूपदानादि. १५ ज्ञोऽपि कुम्भकारः कुम्भमचिकीर्षुश्चिकीर्षुर्वा तदुपादानादिप्वलसतयाऽप्रयतमानः कुम्भारम्भाय कल्पते। तम्माज्ज्ञानचिकीर्षाप्रयत्नसमुदायजन्मा कार्योत्पादो न ज्ञानमात्राद्भवितुमर्हति । न खल्वाट्टैन्धनदहनजन्मा धूमः केवलार्दैन्धनाद्वझे, जायते । अथास्त्वेवं पृथगजनज्ञानेषु । भगवज्ज्ञानं तु तद्विलक्षणमित्यसहायमेव विश्वस्मिन्कार्ये पर्याप्तमिति २० चेत् । हन्त भोः किमस्य ज्ञानेनापि । स्वरूपातिशय एवास्यासहायस्तत्र तत्र कार्ये वय॑तीति । न किंचित्कार्यमसहायादेकस्मात्कुतोऽपि जायत इति चेत् । ननु स्त एव क्षेत्रज्ञगतौ धर्माधम्मौ सन्ति च परमाणवः सहाया इति किमस्य ज्ञानेन । नाज्ञातास्ते प्रवर्तन्त इति तज्ज्ञानमेषितव्यमिति चेत् । कस्माद- १५
१ . उच्छेदप्रसंग ' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"