________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. २ सू. २६
दासीनस्य च कर्तृत्वप्रसङ्गात् । किन्तु परिदृष्टसामर्थ्य कारकप्रयोक्तृत्वम् । तस्मिन् सति कार्योत्पत्तेः । तच्चाशरीरस्यापि निर्वहति । यथा स्वशरीरप्रेरणायामात्मनः । अस्ति तत्राप्यस्य स्वकर्मोपार्जितं तदेवेति चेत् | सत्यमस्ति । परं प्रेरणोपायो न भवति । स्वास्मनि ५ क्रियाविरोधात् । प्रेतयाऽस्तीति चेत्, ईश्वरस्यापि श्रेयः परमाणुरस्ति" इति । तदपि नावदातम् । यतः स्वकर्मोपार्जितशरीरज्ञानचिकीर्षाप्रयत्नशालित्वं कर्तृत्वमाचक्ष्महे । सुषुप्तोदासीनावस्थायां तु शरीरमात्रसद्भावेऽपि विवक्षितकार्यगोचरज्ञानेच्छाप्रयत्नाभावान्न तदुत्पाद: । स्वशरीरप्रेरणालक्षणकार्यकर्त्ताऽपि स्वकम्मोपार्जितशरीर१० सम्बद्ध एवेति क व्यभिचारप्रचारः । स्वात्मनि क्रियाविरोधोऽपि नास्ति | शरीरावयविनः कापि प्रध्वंस इव प्रेरणेऽपि स्वस्योपायत्वाविरोधात् । पूर्वप्रसाधितज्ञानस्वप्रकाशवञ्चात्राप्यविरोधः प्रतिविधेयः । एतेन तदप्यपास्तं यदवाचि केनचित् किं साक्षाच्छरीरस्य कार्ये व्यापारः परम्परया वा । नाद्यः पक्षः । व्यभिचारात् । १५ यदा हि योगी योगशक्त्या सर्पादीनाहरति न तदाहत्य शरीरस्य व्यापारः । अथ द्वितीयः । तदास्त्येवेश्वरेऽपि कर्त्तरि परम्परया शरीरव्यापारः । ईश्वरोऽपि हि कार्यजातमारभमाणः क्षेत्रज्ञाश्रितमदृष्टमपेक्षते । तच शरीरावच्छिन्ने आत्मन्युत्पन्नमित्यस्ति परम्परयाऽलापि शरीरव्यापार इति । यस्मात् क्षेत्रज्ञशरीरमीश्वरस्य न स्वकम्र्मोपार्जितमिति २० सिद्धं स्वकर्मोपार्जितं शरीरं कर्त्तव्यापकं तदभावाच रुद्रे कर्तृत्वाभाव
इति । अतोऽप्यनुमानात्मकरणसमत्वमत्र । विवाद बुद्धिमद्धेतुकं न भवति कर्तृसुखदुःखाजनकत्वात्। यहुद्धिमद्धेतुकं तन्नियमेन कर्पूसुखदुःखजनकम् । यथा घटः । न चेदं तथा । तस्मान्न बुद्धिमद्धेकमिति । यत्पुनर्बुद्धिमद्धेतुतामात्रमन्त्र सिषाधविषितं विशेषो वेत्या२५ शङ्कापर्यन्ते तद्विशेषस्य पक्षधर्म्मताबलात् प्रतिलम्भ इत्यभाणि ।
' नियमेन ' इत्यधिकं प. म. पुस्तकयोः ।
४३६
" Aho Shrut Gyanam"
·