Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 195
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परिः २ सू. २६ नाय प्रथमं तेन शरीरान्तरमारचनीयम् । तस्यापि निष्पादनार्थं प्रथमतरं शरीरान्तरं करणीयमेवं चानवस्था स्यात् । तथा चापरापरशरीरनिर्माण एवोपक्षीणशक्तिकत्वान्न कदाचित्प्रकृतमसौ कार्यं कुर्यात् । अथ स्यादनवस्था दोषाय यद्यशरीरोऽसौ कार्यकरणाय तत्काल ५ एव स्वशरीरमारभेत यावता सदैवास्य शरीरमस्त्येव । कार्यकालभावि खलु शरीरं प्राक्तनशरीरसहितेन निर्मितं तदपि प्राक्तनतरशरीरसहितेनैवेत्यनवस्थापयिं न दोपाय जायते । बीजाङ्कुरादिवदनादित्वाच्छरीरसन्तानस्य । तथा चाहुर्मूलक्षतिकरीमाहुरित्यादि । तदप्यपूतम् । अदृष्टण्टघटितत्वात्सर्वत्र शरीरनाशो१० पादयोः । येन हि यावदायुः कर्म पूर्वमुपार्जितं भवति तस्य तावत्कालं शरीरमवतिष्ठते । यादृशं च तद्भावे तदुपार्जितं भवति तदनुरूपेणोत्तरभवे तदुपजायत इति युक्तमस्मादृशेषु सर्वम् । ईश्वरे तु नास्ति तदितरत्र मुक्तात्मनीव कौतस्कुती तत्कल्पना | अथास्त्येवा-. त्रेच्छा भगवती तद्वशात्तन्नाशोत्पादौ भविष्यत इति चेत्, नैवम् । १५ अस्या अन्यदृष्टापेक्षयैवात्र सर्वत्र प्रवर्त्तनात् । अन्यथा कृतं सर्वत्रादृष्टकल्पनया । यथा यथा स्थाणोरिच्छा प्रवर्तते तथा तथा प्राणिनां सुखदुःखोपभोगस्य सम्भवात् । ततो, नास्य शरीरमपि घटत इति कथमीश्वररूपविशेषस्य पक्षधर्मताबलात्सिद्धिः । नन्वसति विशेषे बुद्धिमत्त्वसामान्यस्थानुमानि२० कस्य तर्हि का गतिरिति चेत् । तत्किमवश्यं भवितव्यमस्य गत्या | ननु प्रमाण सिद्धमुपपादनीयमिति चेत् । यस्य नामानुपपद्यमानेनोपपादनं तस्य च वरमनुपपत्तिरेवास्तु । ननु प्रमाणसिद्धमनुपपन्नमिति विरुद्धम् । एवं तर्हि प्रमाणसिद्धिप्रतिघात एवास्त्वविरोधाय । नः पुनरनुपपन्नस्योपपत्तिः । कथं तर्हि साधनस्येदं दूषणम् । नेदं साधनस्य २५ दूषणम् । किन्तु वादिनो योगस्य । यौ हि ज्ञानमात्रोपेतत्वनित्यानित्येच्छा प्रयत्नोपेतत्वसशरीराशरीरत्वादिविशेषपरिहाण्या જી "Aho Shrut Gyanam" गगनकुलुमाय

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242