Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 192
________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः तदप्यनिपुणम् । पक्षधर्मता हि साध्यस्य पक्षायोगव्यवच्छेदमात्रमेव दर्शयति धूमानुमानादौ तथैव दर्शनात् । अन्यथा धूमात् क्षितिधरकुहरायोगव्यवच्छेदवद्वः पञ्चवर्णशिखाकलापताया अप्यनुमानप्रसङ्गः । नात्र सामर्थ्यमिति चेत्, एवं तर्हि समायात पक्षायोगव्यवच्छेदमात्र एक सामर्थ्यम् । एवमिहापि पक्षधर्मताबलात्पक्षायोगव्यवच्छेदमात्र- ५ सिद्धिरस्तु । नित्यज्ञानस्तु कर्ता कथं सिद्धयेत् । नहि महीधरादि कार्यमिति तत् कचिन्नित्यज्ञानेन भवितव्यमिति भवति । मतिमन्मात्रेण तत्कर्तृत्वमनुपपद्यमानं नित्यज्ञानं स्वकर्तारमाक्षिपतीति चेत् । यद्येवं प्रमाणान्तरप्रसाद एषः । अन्यथानुमितानुमानोच्छेदैः । न च नेष्टं तत् । इच्छादयः समवायिकारणवन्तो गुणत्वादित्यस्मादिच्छादीनां १० समवायिकारणवत्त्वं प्रसाध्य परिशेषानुमानादष्टद्रव्यातिरिक्तस्यात्मरूपद्रव्यविशेषस्य साधनात् । किं च पक्षधर्मतावशादधिष्ठातृविशेषो निखिलविषयवर्तिनित्यविज्ञानमात्रशाली कपाली सिद्धचतीति षड्गुणेश्वरवादिनां मतम् । तच्चाष्टगुणेश्वरवादिनो न क्षमन्ते । वदन्ति च नोपादानादिज्ञानमात्रेण विश्वकार्यजातमुत्पत्तुमर्हति । न जातूपदानादि. १५ ज्ञोऽपि कुम्भकारः कुम्भमचिकीर्षुश्चिकीर्षुर्वा तदुपादानादिप्वलसतयाऽप्रयतमानः कुम्भारम्भाय कल्पते। तम्माज्ज्ञानचिकीर्षाप्रयत्नसमुदायजन्मा कार्योत्पादो न ज्ञानमात्राद्भवितुमर्हति । न खल्वाट्टैन्धनदहनजन्मा धूमः केवलार्दैन्धनाद्वझे, जायते । अथास्त्वेवं पृथगजनज्ञानेषु । भगवज्ज्ञानं तु तद्विलक्षणमित्यसहायमेव विश्वस्मिन्कार्ये पर्याप्तमिति २० चेत् । हन्त भोः किमस्य ज्ञानेनापि । स्वरूपातिशय एवास्यासहायस्तत्र तत्र कार्ये वय॑तीति । न किंचित्कार्यमसहायादेकस्मात्कुतोऽपि जायत इति चेत् । ननु स्त एव क्षेत्रज्ञगतौ धर्माधम्मौ सन्ति च परमाणवः सहाया इति किमस्य ज्ञानेन । नाज्ञातास्ते प्रवर्तन्त इति तज्ज्ञानमेषितव्यमिति चेत् । कस्माद- १५ १ . उच्छेदप्रसंग ' इति भ. पुस्तके पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242