Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 190
________________ परि. २ सू. २६ } स्याद्वादरत्नाकरसहितः एव हि कर्ता शरीरसम्बन्धमपेक्षते नापर: । तदसुन्दरम् । यतः किमु - पाधिलक्षणम् । साधनाव्यापकत्वे साध्येन समव्याप्तिकत्वमिति चेत् । तत्तर्हि कर्तुः शरीरसम्बन्धे सम्भावनाभुवं नावतरत्येव । यथा हि शरीरं कर्तुर्व्यापकं तथा बुद्धयनित्यत्वमपि । न च साधन - व्यापकत्वमुपाधिरिति त्वयैव व्याहृतम् । अन्यथा आर्द्रेन्धनसम्बन्धोऽप्यग्निसम्बन्धे धूमस्योपाधिः : स्यात् । अग्निवत्तस्यापि धूमरूपसाधनव्यापकत्वात् । तस्मान्नोपाधिसम्भवेन शरीरस्य कर्तृव्यापकत्वासिद्धिः । अथ स्यादेवं यदि कर्तुर्बुद्धयनित्यत्वं व्यापकं स्यात् । न चैवम् | या बुद्धिः सा नित्यैवेत्यनित्यत्वसम्बन्धस्य बुद्धावपाधिकत्वात् । तथा कचिद्बुद्धेरनित्यत्वाभावे कचिन्नित्यत्ववुद्धिसम्भवेनापि १० कर्तृत्वभावात्कथं तदनित्यत्वं तद्व्यापकं स्यात् । उपाधिबुद्धेरनित्यत्वेन सम्बन्धोऽदृष्टैकार्थसमवायः । सैव हि वुद्धिरनित्या याऽदृष्टेन साकमेकस्मिन्नमदादावेव समवेतेति । तन्न सारम् । अटैकार्थसमवायस्य बुद्धयनित्यत्वेन सार्धं व्यास्यभावेनोपाधित्वायोगात् । शाकायाहारपरिणामः श्वामत्वेनाव्याप्तादुपाधिर्नाम | व्याप्त्यभावश्चात्र १५ मुक्तात्मसु नास्तीति वाच्यम् । एवंरूपाया मुक्तेः पराकरिष्यमाणत्वात् । यद्वाऽस्त्वेवंरूपा मुक्तिः । तथापि नादृष्टैकार्थसमवायस्योपाधिता । अनित्यत्वात् । साधनव्यापकत्वस्य चार्द्रेन्धनादेरिवानुपाधित्वात् । अथ दोषनिमित्तोऽसमवायस्ततश्च यत्रैव दोषवत्याश्रयेऽदृष्टसमवायस्तत्रैव बुद्धिरनित्या निर्दोषे पुनराश्रयभेदे बुद्धिरपि भविप्यत्यदृष्टसम - २० वायोऽपि न भविष्यतीति चेत् । ननु निर्दोषस्तावदाश्रयो मुक्तात्मनस्तत्र च न बुद्धिमङ्गीकृतवानसि । ईश्वरस्य तु निर्दोषता नाद्यापि प्रसिद्धा । तस्मात्त्वदुक्तोपाधीनामत्रटनात्सिद्धं कर्तुर्व्यापकं शरीरम् । यत्तु कन्दलीकारः प्राह । " किं शरीरित्वमेव कर्तृत्वमुत परिष्टसामर्थ्य कारकप्रयोक्तृत्वम् । न तावच्छरीरित्वमेव कर्तृत्वम् । सुषुप्तस्यो - २५ हि १ न्यायकन्दल्यां पृ. ५६ पं. १०. २८ "Aho Shrut Gyanam" ४३५

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242