Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. २६ स्यादृश्यत्वे हेतुरित्यायलौकिकम् । एकस्य जातिविशेषासम्भवात् । अनेकव्यक्तिनिविष्टत्वात्तस्य । पिशाचादौ हि सन्त्यनेकव्यक्तय इति युक्ता तत्र जातिविशेषाददृश्यतेति । दृश्यशरीरस्य कर्तुम्तृणादावदर्शनासिद्धं कालात्ययापदिष्टत्वम् ! यच्चोक्तं प्रकरणसमत्वोद्भावननिभित्तोपन्यस्तानुमाने येन केनापि प्रमाणेन त्रिलोचन इत्यादि । तदपि नोपपन्नम् । अत्र धर्मिणो विकल्पसिद्धत्वात् । यथा च विकल्पसिद्धोऽपि धर्मी भवति तथा पुरस्तात्प्रकटयिप्यते । यद्वास्तु प्रमाणसिद्ध एवायं धर्मी । न च कालात्ययापदिष्टत्वनिष्टऋः शक्यः कर्तुम् । यदि हि क्षितिधरादिनिर्माणनैपुण्यादिद्वारेण केनचिदस्य सिद्धिरभिधीयते । तदा १० स्यात्प्रकृतदूषणस्पर्शः । यावता भगवदागमप्रसादात्तत्सिद्धि
रुच्यते । न चास्मादसौ तत्कव सिध्यतीति वाच्यम् । अणिमाद्यष्टविधैश्वर्यशालिनो नितान्तबलीयसः खेचरविशेषस्यैव तस्य तत्राभिधानात् । क्षित्यादिकर्तृत्वस्य सर्वथा तत्राश्रवणात् । अथैवं
सिद्धिसाध्यतावतारः । विद्याधरविशेषस्य क्षित्यायकर्तृत्वेनास्माभिरपि १, स्वीकृतत्वात् । अस्मदभिप्रेतम्य तु तम्य न प्रतिरोधः । मैवम् । य
एव हि भवतः सर्वज्ञत्वाद्यतिशयशाली शूली सम्मतः स एवास्माकं विद्याधरविशेष इति न पुनरतोऽन्यः । ततो विशेषविप्रतिपत्तावपि सामान्येन शम्भुर्धर्मी युक्त एव । अन्यत्रापि सर्वत्र धर्मी सामान्येनैव
निगद्यते । अन्यथानुमानमात्रमुद्रामङ्गप्रसङ्गः । शक्यं हि वक्तुं २० शब्दानित्यतानुमानेऽपि । किमयं शब्दो द्रव्यं गुणो व्यापी तदितरः
श्रयमाणोऽन्यो वा धर्मितयोपात्त इति । अतः सामान्येन धर्मिणोऽभिधानान्न कालात्ययापदिष्टता । अथ यः कर्ता स शरीरीत्येवं शरीरकर्तृत्वयोप्प्यव्यापकभावसिद्धौ सत्यामीश्चरे शरीरं निवर्तमानं कर्तृत्व
मपि निवर्तयेत् । न चैवम् । शरीरस्य कर्तृत्वं प्रति व्यापकत्वासिद्धेः । २५ कर्तुर्बुद्धयनित्यत्वोपाधिकत्वाच्छरीरसम्बन्धस्य । अनित्यबुद्धिसमन्वित
१ सर्वकर्तृत्वेत्यधिकं प. म. पुस्तकयोः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242