Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
४१२
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू.२६ साधनाभिधानस्य हठेनायातत्वादित्युक्तम् । अपि च । ज्ञातचिकीर्षाप्रयत्नशरीरशाली खल्वात्मा मूर्तः कर्ता भवति । कुलालादेस्तथोपलम्भात् । एवंभूतश्च कर्ता प्रत्यक्षग्रहणयोग्य एव । यद्यपि ज्ञानादिभागो न
योग्यः । तथापि योग्यशरीरभागबाधाद्भवति प्रत्यक्षं बाधकम् । ५ अथ ज्ञानचिकीर्षाप्रयत्नवानेव कर्ताभिधीयते न शरीरवानपि । ननु
शरीरं कुतो न कर्तृत्वभागनिवेशि । ज्ञानोत्पत्तावुपयुक्तत्वादिति चेत्। तर्हि ज्ञानमपि त्यज्यताम् । इच्छोपयोगित्वात् । इच्छापि त्यज्यतां प्रयत्नोपयोगित्वात् । ततः प्रयत्नमात्रशाली कर्ता प्राप्तः । तथा च न
चेतनः कर्तेत्यहो कमनीयं कर्तृत्वमालोकयाञ्चकुर्योगाः। तस्माज्ज्ञा१० नांदिचतुष्टयशाली कर्ता वाच्यः । एवञ्च भवति प्रत्यक्षं बाधकम् ।
अथ न शरीरं कर्तृभागनिविष्टमन्यत्रोपक्षीणत्वात् । ज्ञानमन्तरेण तु न कर्तृत्वम् । न ह्यत्र ज्ञानमिच्छामात्रोपयोगि । किन्विच्छाप्रयत्नयोविषयावच्छेदोपयोग्यपि । न हीच्छाप्रयत्नौ स्वयं स्वविषयप्रवणावपि
तर्हि ज्ञानविषयावच्छेदद्वारेणैव तयोः सविषयत्वम् । तयोः स्वभावा१५ द्विषयावच्छेदे तदपलापग्रसङ्गः । अयमेव हि ज्ञानस्य ताभ्यां भेदो
यदिदं विषयप्रवणं स्वभावात् । तस्मान्नान्यत्रोपयोगितामात्रेण ज्ञानं त्यक्तुं युज्यते । इच्छाप्रयत्नयोर्विषयावच्छेदार्थमधिकोपयोगात् । तम्माज्ज्ञानचिकीर्षाप्रयत्नाधार एव कर्ता । शरीरं तु ज्ञानोपयोगीति न
कर्तृत्वनिवेशि । एवं च सति न प्रत्यक्षं वाधकम् । ज्ञानादित्रयाधारस्य २० हि कर्तुः प्रत्यक्षेण ग्रहीतुमयोग्यत्वादिति । तदयुक्तम् । यतो यस्या
स्मदादेरनित्याविच्छाप्रयत्नौ भक्तस्तस्य पूर्व विषयपरिच्छेदः। परिच्छिन्ने च तस्मिन् सुखदुःखसाधनतामवधार्य तदनुरूपाविच्छाप्रयत्नौ प्रवर्तेते इति वक्तुं युक्तम् । यस्य पुनरेतौ नित्यौ तस्य यत्र कचन स्वयं सिद्धौ
स्तस्तत्र स्वत एवेति किं कार्य ज्ञानेन । न हि तौ ज्ञानपूर्वी प्रव२५ तते । नित्यताव्याहतिप्रसङ्गात् । ननूक्तमिच्छाप्रयत्नयोः स्वयं विषया
१ ज्ञानदर्शनचारित्रवीर्यमिति ज्ञानादिचतुष्टयम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242