SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ४१२ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू.२६ साधनाभिधानस्य हठेनायातत्वादित्युक्तम् । अपि च । ज्ञातचिकीर्षाप्रयत्नशरीरशाली खल्वात्मा मूर्तः कर्ता भवति । कुलालादेस्तथोपलम्भात् । एवंभूतश्च कर्ता प्रत्यक्षग्रहणयोग्य एव । यद्यपि ज्ञानादिभागो न योग्यः । तथापि योग्यशरीरभागबाधाद्भवति प्रत्यक्षं बाधकम् । ५ अथ ज्ञानचिकीर्षाप्रयत्नवानेव कर्ताभिधीयते न शरीरवानपि । ननु शरीरं कुतो न कर्तृत्वभागनिवेशि । ज्ञानोत्पत्तावुपयुक्तत्वादिति चेत्। तर्हि ज्ञानमपि त्यज्यताम् । इच्छोपयोगित्वात् । इच्छापि त्यज्यतां प्रयत्नोपयोगित्वात् । ततः प्रयत्नमात्रशाली कर्ता प्राप्तः । तथा च न चेतनः कर्तेत्यहो कमनीयं कर्तृत्वमालोकयाञ्चकुर्योगाः। तस्माज्ज्ञा१० नांदिचतुष्टयशाली कर्ता वाच्यः । एवञ्च भवति प्रत्यक्षं बाधकम् । अथ न शरीरं कर्तृभागनिविष्टमन्यत्रोपक्षीणत्वात् । ज्ञानमन्तरेण तु न कर्तृत्वम् । न ह्यत्र ज्ञानमिच्छामात्रोपयोगि । किन्विच्छाप्रयत्नयोविषयावच्छेदोपयोग्यपि । न हीच्छाप्रयत्नौ स्वयं स्वविषयप्रवणावपि तर्हि ज्ञानविषयावच्छेदद्वारेणैव तयोः सविषयत्वम् । तयोः स्वभावा१५ द्विषयावच्छेदे तदपलापग्रसङ्गः । अयमेव हि ज्ञानस्य ताभ्यां भेदो यदिदं विषयप्रवणं स्वभावात् । तस्मान्नान्यत्रोपयोगितामात्रेण ज्ञानं त्यक्तुं युज्यते । इच्छाप्रयत्नयोर्विषयावच्छेदार्थमधिकोपयोगात् । तम्माज्ज्ञानचिकीर्षाप्रयत्नाधार एव कर्ता । शरीरं तु ज्ञानोपयोगीति न कर्तृत्वनिवेशि । एवं च सति न प्रत्यक्षं वाधकम् । ज्ञानादित्रयाधारस्य २० हि कर्तुः प्रत्यक्षेण ग्रहीतुमयोग्यत्वादिति । तदयुक्तम् । यतो यस्या स्मदादेरनित्याविच्छाप्रयत्नौ भक्तस्तस्य पूर्व विषयपरिच्छेदः। परिच्छिन्ने च तस्मिन् सुखदुःखसाधनतामवधार्य तदनुरूपाविच्छाप्रयत्नौ प्रवर्तेते इति वक्तुं युक्तम् । यस्य पुनरेतौ नित्यौ तस्य यत्र कचन स्वयं सिद्धौ स्तस्तत्र स्वत एवेति किं कार्य ज्ञानेन । न हि तौ ज्ञानपूर्वी प्रव२५ तते । नित्यताव्याहतिप्रसङ्गात् । ननूक्तमिच्छाप्रयत्नयोः स्वयं विषया १ ज्ञानदर्शनचारित्रवीर्यमिति ज्ञानादिचतुष्टयम् । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy