________________
परि. २ सू. २६ ]
बोऽस्ति । अत एव न पाण्डुद्रव्यमात्रात्कुमुदकपोतादेर्दहनानुमानम् | धूमत्वा सामान्यस्यैव ततो भेदापादकत्वात् । किं च । यदि कुम्भादौ कार्यत्वमात्रस्य बुद्धिमदन्वयव्यतिरेकानुविधानदर्शनात्पृथिव्यादावपि कार्यतेप्यते । तर्हि केषाञ्चिन्मणिमुक्तादीनां पुरुषान्वयव्यतिरेकानुविधानस्योपलम्भाद्रत्नाकरसमुत्थानामपि तत्कार्यत्वप्रसङ्गः । इष्यत एवं पुरुषस्तत्रापीश्वरः कर्तेति चेत् । कथं तर्हि तत्राकृत्रिमव्यवहारो लोकस्याम्खलद्रूपः । तत्रेश्वरस्य कर्तुरतीन्द्रियत्वेनानुपलम्भादिति चेत् । न । अन्यत्रापि सर्वत्र कर्तुरनुपलम्भाद्देशकालविप्रकृष्टस्य कर्तुरुपलम्भासम्भवादतस्तेष्वप्यदृष्टकर्तृकेष्वकृत्रिमव्यवहारः । सागरसमुत्थादिभिः समानार्थताथवा स्यादविशेषात् । तज्जातीयेषु कर्तुरुपलम्भादष्टकर्तृके- १० ध्वपि कर्तुरनुमानात्कृत्रिमव्यवहार इति चेत् । सामुद्रेष्वपि दृष्टकर्तृकसमानजातीयत्वेन कर्तुरनुमानात् कृत्रिमव्यवहारः किं न स्यात् । अन्यथात्रापि माभूदविशेषात् । सामुद्राणां दृष्टकर्तृकमण्यादिविजातीयत्वेन कर्त्रनुमानायोगात्कृत्रिमव्यवहाराभावे स्थावरादिकार्यस्यापि
स्याद्वादरत्नाकरसहितः
४३१
८
दृष्टकर्तृकप्रासादादिकार्यविजातीयत्वात् । कर्त्रनुमानं न स्यादविशेषात् । १५ तस्माद्दष्टकर्तृकसजातीयानामेव कर्त्रनुमानं युक्तम् । यथा जीर्णकूपप्रासादादीनाम् । तत्रापि मानेन लौकिकपरीक्षकाणामक्रियादर्शिनामपि कृत्रिमबुद्धयुत्पत्तेः । न तद्विजातीयानां कर्त्रनुमानं युक्तम् । यथा नदनदीपर्वतादीनाम् । लौकिकपरीक्षकयोस्तत्र कृतबुद्धयनुत्पत्तेः । एवं विशिष्टं कार्यत्वमसिद्धं वसुधादिषु । कार्यत्वमात्रं पुनरप्रसिद्धव्याप्तिक - २० मिति स्थितम् । यच्च प्रत्यक्षादिभिरबाध्यमानपक्षत्वेन कालात्ययापदिष्टत्वं प्रत्यादिष्टम् । तदपि न स्पष्टम् । पक्षैकदेशस्य तृणादेर्ग्रहणयोग्यकर्तृकस्याप्यगृह्यमाणकर्तृकतया प्रत्यक्षेण बाधनात् । अथ न प्रत्यक्षेण पक्षैकदेशोऽत्र बाधितुं शक्यः । कर्तुः प्रत्यक्षेण ग्रहीतुमयोग्यत्वादिति चेत् । न । प्रत्यक्षानुपलम्भाभ्यां व्याप्तिग्रहणाङ्गीकारेण दृश्य एव विषये २५
१' लौकिकेतरयो:' इति भ. पुस्तके पाठः ।
" Aho Shrut Gyanam"