________________
प्रमाणनयतत्त्वालोकालङ्कारः [ परि. २ सू.२६
हि वस्त्रादिसजातीयेऽपि भूधरादौ कुविन्दादिविलक्षणः कर्तानुमीयते तथाऽदृष्टकुविन्दादिव्यापारे वस्त्रान्तरादावपि न कुविन्दादिरेव कर्तानुमीयेत । न चैवम् । ततो न वस्त्रादिसजातीयत्वं भूधरादेरिति सिद्धे जातिभेदे याकार्यं कुम्भादि पुरुषप्रतिबद्धं न तादृग्गर्भार्भकादीत्यसिद्धि५ स्तत्र कार्यत्वविशेषस्य । यामाभीर्भकादिकार्यं न तादृक् पुरुषव्याप्तमित्यव्याप्तिः कार्यत्वमात्रस्य । एवं च स्थिते प्रकृतसाध्यबुद्धयजननद्वाराणि दूषणानि दूरमपास्तानि । न हि वयं प्रकृतसाध्यबुद्धेरभावात्कार्थत्वहेतोरसिद्धिं ब्रूमः । किं तर्हि मन्दरादौ कुविन्दादिकर्तृबुद्धेरभावाद्वस्त्रादिसजातीयकार्यत्वासिद्धिम् । ततश्च प्रकृतसाध्यबुद्धिवैधुर्यमिति १० न कश्चिदोषः । अपि च यदि घटादो तथा दर्शनात्कार्यतामात्रं गोत्रादौ बुद्धिमद्धेतोरनुमापकमङ्गीक्रियते । तहींदानीं तदेव मृद्विकारतापि शक्रमूर्धनि मनुष्यनिर्मित्यनुमापिका किं माभूत् । न खल्वत्रापि कलशवल्मीकयोर्मृद्विकारत्वं भिद्यते । न च तादृशसंस्थानविशेषो मनुष्येणाशक्यक्रियः । तादृशत्वेऽपि तस्य तदन्वयव्यतिरेकानुविधाना१५ दर्शनान्न तत्कार्यमिति चेत् । न । इहापि साम्यात् । इहापि यस्य यस्य बुद्धिमद्भावानुविधानमस्ति तस्य सर्वस्यास्तु तत्पूर्वता प्रासादादीनाम् । न पुनस्तथाविधस्यापि भुवनादेर्भवितुमर्हति । तस्य तदन्वयव्यतिरेकानुविधानाभावात् । नन्वेवं यो यो धूमविशेषो वह्निभावाभावानुविधायिभावाभाव उपलब्धः स सर्वोऽस्तु वह्निपूर्वो न तु पर्वतनित२० स्ववर्तीति कथं ततो बहिरनुमीयते सामान्यवुद्धिविशेषविषयत्वेन | कोरणाभावावधारणस्येहापि साम्यादिति चेत् । तत्क्रिमिदानीं मनुष्य कार्या कुड्यादय उपलब्धा इति शक्रमूर्धपि तथास्तु | कस्यचिद्विशेषस्य कुडघादिभ्यः शक्रमूर्धादेः सम्भवान्नैवमिति चेत् । स तर्हि प्रासादादिभ्यः सम्भवति भुवनादेरपीति न विशेषः । न त्वेवंविधो बय२५ न्वयव्यतिरेकानुविधायिनां धूमविशेषाणां पर्वतगतामात्स्वरूपेण विशे
१ ' कार्यकारणभावावधारणस्य ' इति प. भ. पुस्तकयोः पाठः ।
४३०
"Aho Shrut Gyanam"