________________
परि. २ सू. २६] स्याद्वादरत्नाकरसहितः चैतत् युक्तम् । सर्वानुमानोच्छेदप्रसङ्गात् । धूमादिप्वपि हि शक्यमेवं वक्तुं नायमझ्यनुमितिसमर्थो धूमः किं त्वन्य एव साध्यबुद्धयजननात् । तथा च तावन्न साधनं सिद्धयति यावत्साध्यबुद्धिर्न सिध्यतीति तावन्न साध्यं सिद्धयति यावत्साधनबुद्धिर्न सिद्धयतीति स्फुटतरभितरेतराश्रयत्वमिति । तदमनोरमम् । यतः कृतवुद्धिरिति न ५ साधनबुद्धिर्नापि प्रकृतसाध्यबुद्धिः किं तु कुविन्दादिस्वभावसाध्यबुद्धिः । तदभावाच्च न साक्षाद्भवदीयहेत्वसिद्धिः प्रकृतसाध्यासिद्धिर्वा विवक्षिता । किन्त्वात्यन्तिकवैजात्यप्रदर्शनमेतत् । तद्वारेण हेतोरसिद्धिरव्याप्तिर्वाभिमतैव । तथा हि शून्यनगरपरिदृष्टदेवकुलादौ शिल्पिबुद्धिराविरस्ति न मलयमकरालयादौ । तदस्याः शिल्पिबुद्धे- १० र्भावाभावी न जातिभेदमात्यन्तिकमन्तरेणेत्यभिप्रायः । ततो यथा धूमादग्निवुद्धिर्भवन्ती गर्दभादेरभवन्ती धूमाद्गर्दभस्य नियतं जातिभेदमापादयति । 'तथेदमपि निश्चितपौरुषेयभावेभ्यो भावेभ्यः कैलाशकुलिशादीनाम् । कथं पुनरत्र सजायतीयत्वाभाव एव प्रतिपत्तव्य इति चेत् । कुविन्दादेरम्भोददम्भोलिप्रभृतिसम्भव इति स्वभेऽपि शङ्काविरहात्। १५ अन्यथा कुविन्दपादमर्दनान्नानावृष्टिकष्टमाविशेल्लोकः । परचक्राकान्तिकातरो वा क्षितिधरजलधिव्यवधिमभिलषस्तत एव निवृत्तिमासादयेत् । कुविन्दस्थानीयस्तवाप्यपरोऽपेक्ष्य एवेति चेत् । न । सजातीयं चेत्कार्य विजातीयकारणगवेषणानुपपत्तिः । कुविन्देनैव साध्यसिद्धेः । न हि पटान्तरेऽपि कुविन्दादपरस्यापेक्षास्ति । वस्त्रविशेषे विशिष्टशिलिपनोऽ- २० पेक्षास्तीति चेत् । अस्ति यावदेव तु वस्त्रान्तरेणैकजातीयत्वपरामर्शो दृढः । अत एव कुविन्दस्यैव शिल्पिनः कल्पनम् । तद्विमर्शाभावे तु पौरुषेयताया एव सन्देहः । मेरुमन्दरादयस्तु न केनचित्पौरुषेयेणैकप्रत्यवमर्शभाजः । तदेषामध्यक्षसिद्धमत्यन्तवैजात्यमपसवानः पटात्पटान्तरे समानशिल्प्यनुमानविरहप्रसङ्गेन तदेव स्वीकार्यते । यथा २५
१ 'तथेयमपि ' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"