SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ द्रव्यादपि हव्याशनानुमानप्रसङ्गो दुप्परिहारः । व्यभिचारोत्तरस्य दूषितत्वात् । तस्मात्कार्यजातिविशेषप्रबद्धमेवाध्यक्षण प्रतिबन्धबोधनम् । यदि च कार्यजातिभेदे प्रवृत्तमपि प्रत्यक्ष कार्यमात्रमधिष्ठानीकरोति । कारणेऽपि तर्हि प्रवर्तमानं कारणमात्रमेव व्यापकमवधारयतु । कम्मा५ हुद्धिमद्रूपं तदवलम्बते । ततो यदि न भवदभिप्रायानुरोधोऽध्यक्षस्यो भयत्र सामान्यावलम्बिना विशेषावलम्बिना वा भवितव्यमनेन । सामान्यावलम्बने कार्यात्कारणमात्रानुमितौ का वार्ता विरूपाक्षसिद्धेः । विशेषावलम्बने च कार्यमात्रेण व्याप्तिरसिद्धेति । तस्मादनुभवाद्युक्तेश्व विशिष्टामेव कार्यजाति हेतुविशेषव्याप्तामुपदर्शयति प्रत्यक्षमिति स्थितम् । प्रयोगः- यद्यत्कार्यकारणभावग्राहि प्रत्यक्षं तत्तद्विशिष्टजातिप्रतिनियत. व्यापारम् । यथानिधूमयोः । तथा चेदं बुद्धिमता कार्यस्य व्याप्तिसाधनमिति । नास्यान्यथा व्यापाराशङ्कयाऽनेकान्तः । कारणानुपलब्धिबाधितत्वात् । कारणभेदो हि कार्यभेदस्य कारणम् । अन्यथा सर्वस्या हेतुकत्वप्रसङ्गात् । न च प्रत्यक्षस्य कारणभेदः । विषयेन्द्रियालोकादि१५ लक्षणसमानसामग्रीप्रभवत्वादिति । दृष्टान्ते साध्यशून्यताशङ्कायां च यद्यत्प्रत्यक्षं तत्तद्विशिष्टजातिप्रतिनियतव्यापारं यथा व्यभिचारग्राहि । प्रत्यक्षं चानिधूमयोः कार्यकारणभावग्राहीति बाधकमभिधानीयम् । अत्रापि स एवानेकान्तपरिहारः । एवं च कार्यजातीनामत्यन्तविल क्षणानामानन्त्यात्प्रतिजातिभेदं च व्याप्तिग्रहणापेक्षणाद्यावज्जातिक २० कार्य वुद्धिमत्यूर्वकं परिच्छिन्नं तावत एवानुमानमसमञ्जसमित्यसमञ्जसम्। कीदृशी पुनः कार्यजातिर्बुद्धिमता व्याप्तेति चेत् ! उच्यते । यद्दष्टेरक्रियादर्शिनोऽपि कृतवुद्धिः । किं सा साधनबुद्धिरथ प्रकृतसाध्यबुद्धिः । साधनबुद्धिस्तावद्भवतां सिद्धैव क्षित्यादीनां कार्यतया सम्मतत्वात् । अथोत्तरः पक्षः । तेनायमों भवति नेदं क्षित्यादिधूपलभ्यमानं ६५ साध्यानुमानसमर्थ कार्यत्वं किन्त्वन्यदेव साध्यबुद्धयजननात् । न १ 'कारणभेदोऽस्ति' इति प. भ. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy