________________
परि. २ सू. २६ ] : स्याद्वादरत्नाकर सहितः
व्याप्तिदुर्ग्रहं प्रत्याय्यते । अतः साधारणाने कान्तव्यवस्था । यथा धूमप्रवृत्तेऽपि व्याप्तिग्राहिण्युच्छलत्कपोतकण्ठधूसरं वस्तु वह्निव्याप्तमनुस्मरन् मारुतोद्धृतधूलिपटलादनलमनुमिन्वन् बाप्पोदयेन प्रसिद्धोषर्बुधवैधुर्येण व्यभिचारमादश्यं वार्यते । ततो जातिविशेषप्रतिबद्ध एवाध्यक्षेण प्रतिबन्धोऽवसेयः । ननु यदि जातिविशेषप्रतिबद्धंबोधः । तदा एते पटादयो हरिद्रादिद्रव्यसंस्कारवन्तो रागयोगित्वात्पूर्वोपलब्धपटवदित्यादौ कथमत्यन्तविजातयोऽपि पैटकुटाद्या रागमात्रयोगिनो हरिद्रादिद्रव्यसंस्कारमनुमापयेयुः । अनुमापने वा तद्वदेवात्यन्तविजातीया अपि कैलाशकुलिशादयः साधारणकार्यत्वधर्म्मकाः पुरुषमनुमापविष्यन्तीति चेत् । नैवम् । कार्याख्यव्याप्यस्यात्र गमक- १० त्वात्तदपेक्षयैव सजातीयविजातीयतायाश्चिन्त्यत्वात् । तच्च निर्वर्त्य - विकार्यकर्मापेक्षया यथाक्रमं द्विविधं धर्मिरूपं धर्मरूपं च । तत्र सर्वथाऽपूर्वोत्पत्तौ धर्मिणो व्याप्तिरुच्यते धूमादिवत् । तदा हि धूमान्तरमेव सजातीयं विजातीयमन्यवस्तु । यदा तु पूर्वस्थितस्यैव धर्मान्तरोत्पत्तिस्तदा च व्याप्तिरुच्यते पयस्यौष्ण्यादिवत् । तदा चौष्ण्यान्तरमेव १५ सजातीयो धर्मः । नाधुना धर्मिजातेरपेक्षा । तथा ह्यग्निसंयुक्तमिदं जलमुष्णत्वाद्धृतवदित्यत्रौष्ण्याख्ययोर्जल घृतसमाश्रितयोर्धर्मयोरेव सजातीयत्वम् । नतु जलनृतयोर्धर्मिणोः । एवं रागोऽपि पटकटादिद्रव्यवैजात्यमवमत्य स्वरूपसजातीयत्वापेक्षयैव द्रव्यसंस्कारस्य गमकः । अत एव तद्विशेषे कचित्कुङ्कुमस्य कविद्धरिद्रादेः सक्तः संस्कारोऽनुमीयते । २० न चैवं पूर्वस्थिते भूधराम्भोधरादौ कार्यत्वमात्रनिर्वर्तकः पुरुष इष्टः, किन्तु कुम्भकारादिवदपूर्वोत्पादकः । तस्माद्धर्मिवस्तुव्याप्तिग्रहो न धर्ममात्रप्रत्यासत्तिमनुरुध्यते । नापि धर्मव्याप्तिर्धर्मिणः सजातीयत्वम् । अतो न रागवद्धर्मिवैजात्येऽपि कार्यत्वस्य गमकत्वम् । अन्यथा पाण्डु -
१' धूम्रधूलि' इति प. भ. पुस्तकयोः पाठः । २ ' जातिविशेषप्रतिबद्ध एवाध्यक्षेण प्रतिबन्धबोध: ' इति प. भ. पुस्तकयोः पाठः । ३' पटकट ' इति भ. पस्तके पाठः ।
"Aho Shrut Gyanam"
४२७