________________
४२६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ सर्वत्रानुमानरूपे विषये तत्तस्य प्रामाण्यक्षयमादधाति नियते वा । प्राक्तने प्रकारे धूमध्वजानुमानमपि न स्यात् । किमिदानी शरणमीश्वरानुमाने भविष्यति । नियतेऽपि विषये किमिष्टिवशाम्यभिचारदर्शनं व्याप्तिग्राहिप्रमाणस्य ग्रामाण्यक्षयं कुरुते स्वयं तत्रैव प्रवृत्तितो वा । इप्टिवशान्नियते विषये व्याप्तिविहितौ व्यभिचारदर्शनं वराकमुदासीनमिति न कश्चिद्धे तुरहेतुर्वा तत्त्वतः ! धूमेऽपि स्वेच्छया व्याप्तिखण्डनप्रसङ्गात् । तत्रैव प्रवृत्तितस्तु नियतविषयत्वं व्यभिचारगोचरस्यापि प्रत्यक्षस्य कथम् । यावता यथा नियतजातिप्रवृत्तिबुद्धिमत्त्वेन कार्यत्व
मात्रस्य व्याप्तिग्राहिप्रत्यक्षं सर्वविषयमिष्टम् । तथा व्यभिचारगोचरमपि १० सर्वविषयमेवास्तु । कथं नियतविषयम् । अन्यूनानतिरिक्तविषयकत्वा
दुभयोः । तस्मादेकविषय एवं व्याप्तिग्रहो व्यभिचारचेतनं चेति किम. धुनापि साधनमसाधनं वा स्यात् । भवतु भवदुपरोधाद्यभिचारदर्शनस्य नियतविषयत्वम् । तथापि न सकृदेव व्यभिचारवतां तद्बोधः । किन्तु क्रमेण । व्याप्तिग्रहणकाले च व्यभिचारिणामपि व्यभिचारदर्शनमाहत्य नास्तीति धूमस्य पटादिकार्याद्विशेषाभावादहेतुत्वम् । हेतुत्वे वा धुमस्येव पटादिकार्यस्यापि हेतुत्वं स्यात् । न च सर्वम्यान्यस्य कार्यस्य व्यभिचारदर्शनाद्भूमे व्यातिविश्राम इति वाच्यम्। अशक्यो ह्ययमों व्यभिचारविषयाणामनन्तत्वादेशादिविप्रकर्षवतां
गोचरीकरणकालापेक्षया पुरुषायुषः कनीयस्त्वात् । तस्माद्यभिचारदर्शन२० वन्नियतविषय एव व्याप्तिग्रहोऽपि निरपवादः । नन्वेवं केनचित् कापि
व्याप्तिग्रहणे परेण व्यभिचारोपदर्शनाद्यैषा साधारणानेकान्तव्यवस्था सा दुःस्थेति चेत् । एवमेतद्यदि बुद्धिपाटवनियमः सर्वेषाम् । मन्दबुद्धिस्तु सादृश्यादिना जातिविशेषप्रवृत्तेऽपि प्रत्यक्षे जात्यन्तरेणै कीकृत्य व्याप्तिग्रहणाभिमानादनुमानमातिष्ठमानः पटुना परेण व्यभिचारमादी
१ शक्तिकत्वादुभयोरिति प. भ. पुस्तकयोः पाठः । २ ' विश्राम ' इति तु अपाणिनीयम् ।
"Aho Shrut Gyanam"