________________
परि. २ सू. २६ ]
१०
दराद्याकारमीदृशात्तु तस्मादातानवितानीभूततन्त्वात्मकमित्यनेनाकारेण हेतुफलभावः सर्वापरकार्यकारणजातिव्युदासेन विशिष्टमेव जातियुग्ममुल्लिख प्रवर्तते । इयमेव गतिः सर्वत्र हेतुफलभाववेदने विदिता ध्रुवमीश्वरानुरोधात्प्रसिद्ध नयलङ्घनमिदं वचः । अथाभिदधीथाः । कः पुनस्त्रानुरोधः । यदि तार्णादिभेदमुदस्य वह्निना धूममात्रस्येव भूधरादि - ५ भेदमुदस्य कार्यमात्रस्य बुद्धिमता व्याप्तिं प्रतीयात्प्रत्यक्षम् । यथैव तर्हि बर्हिषा कार्यजातिविशेषस्य धूमस्यावान्तर सूक्ष्मजातिमात्रमन्तर्भाव्य व्याप्तिग्रहः । तथा बुद्धिमताप्यस्तु कार्यजातिविशेषस्यैव वस्त्रादेर्न तु कार्यमात्रस्य । यथा वात्यन्तविसदृशीरपि जातीरन्तर्भाव्य कार्यमात्रस्य बुद्धिमता व्याप्तिं जिघृक्षसि तथा कार्यमात्रस्यैव यत्र कार्यमात्रं तत्र वह्निरित्येवं वह्निनापि किं न तां गृह्णीयाः । इन्द्रियप्रत्यक्षप्रत्ययस्यैव बहिर्व्यापार उभयत्र कथं भिन्नां प्रवृत्तिमाश्रयेत् । अथ कार्यमात्रं व्यभिचरति चित्रभानुं नतु बुद्धिमन्तमिति व्यभिचारदर्शनादर्शनकृतोऽयं विभाग इति चेत् । तत्तर्हि दर्शनादर्शनं विमर्शमनारूढं गच्छत्तणस्पर्शचन्न व्यवहारायेति तदनुरूपेण विमर्शेनावश्यं भाव्यम् । न चायमस्ति । १५ न हि कश्चिदभिधूमादिष्वन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भाप्रवृत्तौ कार्यजातिरखिलाऽनलादुत्पद्यत इति संकल्पमनुभूय भूयोव्यभिचारदर्श नाद्यतः कार्यान्तराणि वह्निमन्तरेणाप्युपलभ्यन्ते ततो धूम एवानेन जन्यत इति निश्चयं परिचिनोति । किं तु झटित्येव प्रत्यक्षानुपलम्भानन्तरमस्मादम्यादेरिदं धूमादीति जातिविशेषद्वयं हेतुफलभावतया निश्चिनोति । किं चैतव्यभिचारदर्शनं किं सत्यामेव व्याप्तावनुमानमात्रं खण्डयति यद्वा व्याप्तिरेव मिथ्येति व्यवस्थापयति । नाद्यः पक्षः | विरोधात् । न हि साध्याविनाभावलक्षणा व्याप्तिश्च हेतोः । साध्याभावसम्भवकृतश्चानुमानाभावः सङ्गच्छते । द्वितीयेऽपि स्वसामर्थ्येन स्फुरत्येव व्याप्तिग्राहिणि प्रमाणे व्याप्तिमिथ्यात्वं तदवस्थापयेत्किं वा तस्यैव २५ प्रामाण्यक्षयमादधानम् । पौरस्त्यपक्षे प्राचीन एव प्रतिक्षेपः । चरमे तु
स्याद्वादरत्नाकरसहितः
"Aho Shrut Gyanam"
४२५
२०