________________
४२४
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ शक्यः । निवृत्तिमात्रं तु दासीगर्दभन्यायेनाकार्यकारणयोरपि सुलभम् । एवं च किं बुद्धिमत्कारणव्यापाराभावाद्विहायसि कार्यत्वाभाव उत कारणमात्रविप्रयोगादिति सन्देहः । तथा च स 'विफलः प्रयासः । अन्वयोऽपि हि कार्यमात्रस्य कारणमात्रेण गृह्यन्तामुतस्वित् पुरुषविशेषणेन कारणेनेति सन्देह एव । अथ दृष्ट एवायं पुरुषविशेषण. कारणरूपो विशेषः कथं परिहतुं शक्यो धूमे दहनात्मवत् । यद्येवं दृश्यशरीररूपो विशेषः प्रतीत एव कथं परिहर्तुं शक्यः । चित्रभानो सुराकास्वत् । स हि तर्हि विशेषो व्यभिचार्यते भूधरादिषु
दृश्यशरीरकर्तारं विनापि कार्यत्वस्य दर्शनादिति चेत् । व्यभिचार्यता १० नाम । किन्तु यथा दृष्टत्वात्पुरुषविशेषणकारणेऽन्वयो भवताभिधीयते
तथा कार्येऽपि परिदृष्टविशेषे एव पुरातनप्रासादादावन्वयोऽभिधीयतां न तु भूधरादाविति किं नश्छिन्नम् । नन्वेवं जैनानामपि कथं वाप्यनुमानादतीन्द्रियवस्तुसिद्धिः । तदसाधीयः । उपलम्भानुपलम्भप्रभव
तर्कप्रमाणाध्याप्तिग्रहणवादिनामेवंविधदोषश्लेषासम्भवात् । प्रत्यक्षा१५ नुपलम्माभ्यां तु तद्रहणवादिनां नास्ति तदोषेभ्यो मोक्ष इति । अपि
च कथं प्रत्यक्षानुपलम्भाभ्यां कार्यमात्रस्य बुद्धिमत्कारणविशेषण व्याप्तिग्रहणमनुगुणम् । यतोऽमू प्रत्यक्षानुपलम्भा विशिष्ट कार्यकारणजात्युल्लेखेनैव कार्यकारणभावग्रहणाय प्रवर्तते । तथा हि प्रत्यक्षानुपल
म्भप्रवृत्तिसमनन्तरमीदृशात् ज्वलद्भासुरस्वरूपविशेषादीदृशकपोतकण्ठ२० धूसरमक्षिकण्ठविकारकारि वस्तु जायते । ईदृशात्पुरुषविशेषात्पृथुबुनो
१. अन्यथासिद्धिशून्यस्य नियता पूर्ववृत्तिता । कारणत्वं भवेत्तस्य-' इति कारणत्वलक्षणेऽन्यथासिद्धस्य न कारणतेति निश्चितम् । तथा च घटोत्पत्तौ शिरसि मृत्तिकामानीतवती दासी तथा तदानयनकारी गर्दभश्च न कारणं किंतु मृत्तिकैव । अन्यथासिद्धिशून्यत्वात् । भृत्तिकाही दासी गर्दभश्चान्यथासिद्धौ । उपायान्तरेणापि मृत्तिकानयनस्य सुकरत्वात् । एतद्विचार्य निवृत्तिमात्रंतु' इत्यादिनिर्देशः। २ 'सकलप्रयासः' इति प. म. पुस्तकयोः पाठः । ३ 'न तथा' इति प. पुस्तके पाठः । ४' प्रहवादिनां तेषामेवविध ' इति प. भ. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"