________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः
४२३ योग्यज्वलद्भासुराकारपुरस्कारेण प्रवर्तमानाध्यक्षकृता व्याप्तिः सप्तार्चिषि न जठरानलसाधारणरूपपर्यवसायिनी । अन्यथा तार्णादिभेद इवाभिमतेऽपि रूपे सन्दिहानो न तत्साध्यार्थक्रियालाभैकाग्रबुद्धिः प्रवर्तते । यथा वा पल्लवोल्लासने समीरणेन व्याप्तिरध्यक्षकृता स्पृश्यरूपपुरस्कारान्न स्तिमितमारुतसाधारणरूपपर्यवसायिनी । अन्यथा किसलयकम्पेन ५ पवनमनुमिन्वन् स्पृश्यप्रभञ्जनानुरूपे प्रवृत्तिनिवृत्ती निश्चयेन नाचरेत् । तथा बुद्धिमत्यपि प्रत्यक्षकृता व्याप्तिर्नादृश्यमाधारणरूपपर्यवसायिनी । तम्मात्, प्रत्यक्षव्याजेन यदि प्रमितिमात्रमेव व्याप्तिसिद्धावभिधीयते । तदा प्रत्यक्षकृतकारणत्वनिश्चयस्य तस्य दृश्यादृश्यरूपपर्यवसायित्वाभावेन व्याप्तत्वात् । प्रयोगः-यो यः प्रत्यक्षकृतः कारणत्वनिश्चयो १० नासो दृश्यादृश्यरूपपर्यवसायी । यथाग्नौ जठरजातजातवेदःसाधारणरूपं परिहरन्प्रत्यक्षकृतश्चासौ बुद्धिमतीति व्यापकविरुद्धोपलब्धिः । दृश्यादृश्यरूपपर्यवसायित्वं हि प्रत्यक्षाकृतत्वेन व्याप्तं तद्विरुद्धश्च प्रत्यक्षकृतकारणत्वनिश्चय इति व्याप्तेरभावात्सन्दिग्धविपक्षव्यावृत्तिकत्वमेव कार्यत्वस्य । किं च यदि दृश्यादृश्यविशेषणमवधूय धीम- १५ न्मात्रेण व्याप्तिर्विवक्षिता । तर्हि यदा बुद्धिमदभावे कुम्भकार्यस्याभावमुपदर्शयेद्वादी व्यतिरेकप्रतिपादनाय । तदा दृश्यादृश्यविशेषणशून्यचेतनमात्रस्याभावः केन प्रमाणेन सिद्धः। दृश्यानुपलब्धेश्यस्यैव प्रतिषेधेड़धिकारात् । अन्यथा तृणादिना व्यभिचारस्याशक्यपरिहारत्वात् । न हि दृश्यपुरुषविषयैवानुपलब्धिर्बुद्धिमन्मात्रस्य व्यतिरेकबोधसाधनीभावितु- २० मर्हति । आत्यन्तिकविषयभेदस्य व्यक्तत्वात् । अन्यथा तृणादिजन्मन्यपि दृश्यपुरुषविषयैवानुपलब्धिः कार्यत्वन्यभिचारस्थिरीकरणकारणं किं न स्यात् । तयैव तत्राप्यदृश्यस्यापि कर्तुः प्रतिषेधसम्भवात् । नं हि लाभे प्रवेशश्छेदे निःसरणमिति न्याय्यम् । तस्माद्दश्यविशेषणापोहे व्यतिरेकग्रहणोपायाभावाव्याप्तेः पुनरपि विपक्षव्यावृत्ति- २५ सन्देहः । न च नभस्युभयाभावविभावनभुपायो व्यतिरेकग्रहणस्य । कार्यत्वाभावस्य बुद्धिमध्यापाराभावप्रयुक्तत्वनिश्चयानुपपत्तेः । तदपरकारणसाकल्ये हि तन्मात्राभावेऽभावः कार्यस्य तदभावप्रयुक्तः प्रत्येतुं
.१ स्वार्थबुद्धयः पुरुषाः स्वार्थ सिद्धिसमये प्रवर्तन्ते स्वार्थविनाशमालोच्य निवर्तन्त तद्वत् ।
"Aho Shrut Gyanam"