________________
४२२
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ सू. २६
यत्वादित्यादावपि पक्षीकरणमेव शरणं स्यात् । अथ पक्षीकृतेनैव व्यभिचारोद्भावनेऽनुमानमात्रमुद्रामङ्गप्रसङ्गः । तथा हि धूमानुमानेऽपि शक्यमेवं वक्तुम् । वहिव्यभिचारी धूमः पर्वतनितम्बे तमन्तरेण । यदि हि
तत्रापि प्रत्यक्षेणाशुशुक्षणिः प्रक्षिप्तः स्यात्तदा को नाम न मन्येत ५ व्यभिचारम् । न चैवम् । अयोग्यदेशस्थतया तत्र प्रत्यक्षस्य विधौ
प्रतिषेधे वा कुण्ठितत्वेन सन्देहात् । अत एव हेतोरत्रावसरः । "सन्दिग्धे हेतुवचनम्" इति वचनात् । न चैवं प्रस्तुतेऽस्ति । नेदीयस्थैरवचनैरप्यवधानैकचित्तैरपि तृणादिषु प्रत्यक्षेण प्रतीतेरनुपलम्भात्।अध्यक्षमेव च प्रतियोगिनः प्रतियोग्यन्तरापेक्षयानुपलब्धिरुच्यते । ततोऽनुपलब्धिबाधितमेव व्यवहारसाधनापेक्षयानुमानबाधितमुच्यते। न चानुमानबाधितेऽप्यनुमानान्तरावकाशः । अथ दृश्यविशेषणस्यैवाभावं व्यवहारयति । दृश्यादृश्यसाधारणं च बुद्धिमत्त्वमिति दृश्यतानियमानुपपत्तेर्बुद्धिमतः कथमनुपलब्धिमात्रेण तृणादिजन्मनि निषेधः । ततः सन्देहात्पक्षी
करणं न्याय्यमिति चेत् । तदेतदतिस्थवीयः । व्याप्तिसाधनायाध्यक्षानुप१५ लब्ध्योरधिकारदानादेव दृश्यताम्वीकारस्य प्रसह्यायातत्वात् । न ह्यदृश्ये
प्रत्यक्षमन्वयसाधनमनुपलब्धिर्वा व्यतिरेकसाधिनीभवितुमर्हति । दृश्यते तु नियतस्तृणादिना व्यभिचारचकितचेताः प्रत्यक्षागोचरेण बुद्धिमता व्याप्तिं गृह्णीवात् । गृह्णातु, न तु तत्र प्रत्यक्षानुपलम्भाश्रयः श्रेयानम्य ।
ननु दृश्यादृश्यविशेषणमनपेक्ष्य प्रेक्षावत्त्वमात्रेण व्याप्तिग्रहः । नैवम् । २० तावतापि हि प्रत्यक्षकृताया व्यातेरनवकाश एव । दृश्यैकस्वभाव
नियता हि सा कथं दृश्यादृश्यसाधारणरूपविषया भवेत् । तद्धि दृश्यमदृश्यं च रूपमेकबुद्धिमत्त्वादिधर्मानुवृत्तावपि स्वभावविप्रकर्षेतराभ्यामत्यन्तं भिन्नजाति । ततः प्रत्यक्षं दृश्यैकजातिस्वीकारेण प्रवृत्त
भितरवार्तानभिज्ञं तद्विशिष्टमेव साधारणमपि धर्मं व्यापकमादर्शयति । २५ यद्यपि देशकालविश्कृष्टमपि न दृश्यम् । तथापि दर्शनयोग्यतयैक
जात्येवेति । स्वभावविप्रकृष्टस्यैव प्रत्यक्षेण परिहारात् । सर्वान्यवर्जने हि नियतविशेषपर्यवसानाद्वयाप्तिरेव न स्यात् । यथा हि स्वप्रवृत्ति१ - तु सानुमानमुच्यते ' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"